SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५२ प्रमाणबार्तिकस्ववृत्तिटीका (११६५) अर्थान्तरमेव स्यात् । तथाभूतज्ञापनाय शब्दस्य कृतसंकेतत्वात् । ननु च पाचकस्य पाकक्रियाया न संबंधः। यथोक्तम् ।' न वै पाकेनान्य एव पाचकः कश्चिद् अभिधीयते। यत् पुनरस्याभिधेयं तदेवाभिधेयम् । तदेव पाचक (त्वे) नाप्यभिधीयते अप्रतिष्ठितैर्मिभ्याविकल्पा धर्माः॥ भेदान्तरज्ञापनाय स्वयं कृतेन समयेन दर्शयेदिति सम्बन्धः। यथा देवदत्तेन शय्यते पटस्य शुक्लत्वमिति । अत्रापि शायकशब्दस्य य एवार्थः स एव प्रतिक्षिप्तभेदान्तरः । शय्यत इत्यस्यापि। तथा शुक्ल: पट इति य एवाशक्लव्यवच्छिन्नो प्रतिक्षिप्तभे दान्तरोर्थः स एव प्रतिक्षिप्तभेदान्तरः पटस्य शुक्ल इत्यस्यापि। तथाभिधान57b मात्रेणेति प्रतिक्षिप्ताप्रतिक्षिप्तभेदान्तरस्यकर्मिगतस्य व्यवच्छेदस्याभिधान मात्रेण तदेव वस्त्वर्थान्तरमेव परमार्थतो धर्मर्मिरूपेण विभक्तमेव। न पुनर्भवतीति सम्बन्धः। किङ्कारणं (1) तथाभूतस्यैव प्रतिक्षिप्ताप्रतिक्षिप्तभेदान्तरस्यैवैकस्य ज्ञापनाय धर्मर्मिशब्दस्य कृतसंकेतत्वात् । ___ यद्वा तथाभिधानमात्रेणेति। अर्थान्तरभूतधर्माभिधानमात्रेण तद्धर्मस्वरूपम्परमार्थतोर्थान्तरमेव भवति। तथाभूतस्यैव भेदान्तरनिरपेक्षस्यैव तस्यैकव्यावृत्तस्य ज्ञापनाय धर्मशब्दस्य कृतसंकेतत्वात् ।। ननु चेत्यादि परः। सम्बन्ध उच्यत इति पाकक्रियायाः पाचकस्य च कर्तुः सम्बन्धः समवायलक्षणः। तथा हि कृदन्ताद् भावप्रत्ययः सम्बन्धस्याभिधायको दष्टो यथाह। समासकृत्तद्धितेष सम्बन्धाभिधानमिति। कृदन्तश्च पाचकशब्दः (1) न पाक एव क्रियात्मकः पाचकत्वशब्देनोच्यते। एतदुक्तम्भवति (1) अन्यैव कर्तृव्यतिरिक्ता क्रियान्यश्च तयोश्च सम्बन्धो. न्य एव। ततश्च कर्तृस्थक्रियाभिधाने सत्यपि पचतेर्न पाकपाचकत्वशब्दयोस्तुल्योर्थ इति। न वै पाकेनेत्यादिना परिहरति। पाकेन न वस्तुभूतेन व्यापारेण युक्तोन्य एव पाकक्रिया व्यतिरिक्तः पाचको नाम कर्ताभिधीयते पाचकशब्देन (1) यादृशो वर्ण्यते वै शे षि का दिभिः क्रिया व्यतिरिक्तः स्वतन्त्रः कर्ता यत्र क्रियाकारकसम्बन्धो वस्तुभूतः स्यात्। तस्य स्वतन्त्रस्य कर्तुः क्रियाव्यतिरिक्तस्य निषेत्स्यमानत्वात्। न चेद् व्यतिरिक्ता क्रिया कर्ता वा कुतस्सम्बन्धः यस्य भावप्रत्ययेनाभिधानमिति भावः। यत्पुनरस्येति पाचकशब्दस्यास्याभिधेयमपाचके व्यवच्छिन्नमप्रतिक्षिप्तभेदान्तरं वस्तुमात्रन्तदेव पाचक __1 Ji-skad-du-brdod-pa-sta-bu. 2 Bstan-zin.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy