________________
४. सामान्यचिन्ता
१५१ कश्चिद् विशेषः। एकस्तमेव ज्ञापयति' प्रतिक्षिप्तभेवान्तरः, अन्योऽप्रतिक्षेपेण गमय'तीति अयमेव भेदः॥
जिज्ञापयिषुरर्थन्तं तद्धितेन कृतापि वा।
अन्येन वा यदि ब्रूयाद्भेदो नास्ति ततोऽपरः ॥६५॥ ___ एतावन्तं दर्शयेत् तथाभूतज्ञाप'नाय। पाक इति: तद्धितेनापि दर्शयितुं योग्यं पचेदप' इति कृद्वता ऽपि, स्वकृतसमयान्तरेणाऽपि। तथाभिधा. नमात्रेण
दमात्रे निश्चयोन्येषान्तु भेदानामप्रतिक्षेपमानं। स एव च शब्दार्थो यत्र शाब्दो निश्चयो भवतीति नास्ति भावद्रव्याभिधायिनोः शब्दयोर्वाच्ये विशेषो भेदान्तरप्रतिक्षेपाप्रतिक्षेपमात्रन्तु भिद्यते। तदेवाह। एकस्तमेवेत्यादि। एक इति धर्मशब्दस्तमित्यगोव्यवच्छिन्नं। प्रतिक्षिप्तं भेदान्तरं येन धर्मशब्देन स तथोक्तः । अन्य इति धर्मिशब्दोऽप्रतिक्षेपेण तमेव पिण्डं सामानाधिकरण्येन गमयतीति नास्ति 'द्रव्यनिश्चयम्प्रति भेदः प्रतिक्षेपाप्रतिक्षेपमात्रन्तु भिद्यते। एवं गमनन्देवदत्तस्य गच्छति देवदत्त इति न कश्चन भेद इत्यन्यत्राप्येवं योज्यं ॥
यापि जातिगणक्रियासम्बन्धभेदेन चतुष्ठयी शब्दानां वत्तिः साप्यनेनैव वस्तुगतधर्मभेदेन संगृहीतेत्याह। जिज्ञापयिषरित्यादि। ज्ञापयितुमिच्छरर्थन्तम्भेदान्तरप्रतिक्षेपाप्रतिक्षेपलक्षणं। तद्धितेन तद्धितप्रत्ययान्तेन। कृतापि वा। कृतसंज्ञकप्रत्ययान्तेन वा। अन्येन वा कृत्तद्धितव्यतिरिक्तेन तिङन्तेनाऽव्युत्पन्नेन वा शब्देन शुक्लादिना यदि ब्रूयात् । ततो भेदान्तरप्रतिक्षेपाप्रतिक्षेपलक्षणाद् विशेषादपरो भेदो नास्ति।
तद्वयाचष्टे। एतावन्तमित्यादिना । एतावन्तमिति प्रतिक्षिप्तभेदान्तरलक्षणं ।। कृतापि वा। दर्शयदिति सम्बन्धः । __ यदा वाधिश्रयणादिक्रियायां कर्तृस्थायाम्पचिर्वर्त्तते। तत्रैव च घञ प्रत्ययस्तदा पाचकत्वशब्देन क्रियाकारकयोः सम्बन्धः समवायोभिधीयत इति पाचकत्वशब्देन समानार्थः पाकशब्दः। द्वावप्येतौ प्रतिक्षिप्तभेदान्तरमपाचकव्यवच्छिन्नमर्थं प्रतिपादयतः। यदा तु कर्मस्थैव क्रिया विक्लृत्तिः पचेरर्थस्तदा पाचकत्वशब्दस्य कथं सम्बन्धाभिधायित्वं । पाचकत्वपाकयोभिन्नार्थत्वात् । अन्येन वा कृत्तद्धितव्यतिरिक्तेन तिङादिना। तथाभूतज्ञापनाय। प्रतिक्षिप्त
1 Ses-pa-byod-pa-la. 2 Bcod-pa-hid-ces. 3 Ran-gis-byas-paḥi-gśun-legs-gzan-gyi.