________________
१५० प्रमाणवात्तिकस्ववृत्तिटीका (१।६४) निराकांक्षत्वाच्च। . द्वितीये तु भवति। तथा संकेतानुसारेण संहृतसकलव्यवच्छेदधर्मः विभागवत एकस्येव संदर्शनेन प्रतिभासनात् व्यवच्छेदान्तरापेक्षत्वाच्च ।
भेदोयऽमेव सर्वत्र द्रव्यभावाभिधायिनोः। .
शब्दयोर्न तयोर्वाच्ये विशेषस्तेन कश्चन ॥६४।। 440a तस्मात् सर्वत्र धर्मिधर्माभिधायि'शब्दे वाच्येऽर्थे निश्चयप्रत्ययविषयत्वेन न
बुद्धिरुत्पद्यते। ततो न सामानाधिकरण्यमिति। धर्मान्तरप्रतिक्षेपादेव तदन्येषु भेदेषु निराकांक्षत्वाच्च बुद्धेर्न विशेषणविशेष्यभावः ।
द्वितीये तु धर्मिवाचिशब्दपक्षे भवति सामानाधिकरण्यम्विशेषणविशेष्यभावो वा शुक्लो गौरिति। सामानाधिकरण्ये कारणमाह । तथेत्यादि । तथा संकेतानुसारेणेत्यप्रतिक्षिप्तभेदान्तरे वस्तुनि धर्मिशब्दस्य संके'तानुसारेण हेतुना। एकस्मिन् धर्मिणि योजनं संहारः। व्यवच्छेदहेतुका धर्मा व्यवच्छेदधर्माः संहृताश्च ते सकलव्यवच्छेदधर्माश्चेति कर्मधारयः। तैर्धमैः करणभूतैविभागवतः। विभक्तानेकधर्मवतो धर्मिण एकस्येव शब्दसन्दर्शनेन प्रदर्शनेन बुद्धेः प्रतिभासनात्। अनेकधर्मवन्तन्धर्मिणमेकमिव सन्दर्शयन्ती बुद्धि: प्रतिभासत इति यावत् । न तु बुद्धिप्रतिभाससन्दर्शितो धर्मी वस्तुत एक: (1) विकल्पनिर्मितस्य धर्मधर्मिविभागस्यालीकत्वात्। एकस्यैवेत्यपि पठन्ति। तत्रापि प्रतिपत्त्रध्यवसायवशादेव युक्तमिति बोद्धव्यं । ततः सिद्धं सामानाधिकरण्यं (1) यतश्च भेदान्तराप्रतिक्षेपेण धम्मिशब्द: प्रवृत्तस्तत एव तज्जनिताया बुद्धेरप्रतिक्षिप्त भेदान्तरापेक्षत्वाद् भवति विशेषणविशेष्यभावो यद् गौः शुक्लो नीलो वेति। चशब्दश्च पूर्ववदतीतहेत्वपेक्षः॥
इदमेव व्यापकं सर्वव्यवहारस्य नापरस्परपरिकल्पितं सामान्यगुणादिकान्तस्य प्रमाणबाधितत्वादित्याह। भेदोयमेवेत्यादि। द्रव्यभावाभिधायिनोः शब्दयोर57a यमेव भेदो धर्मान्तरप्रतिक्षेपाप्रतिक्षेपलक्षणः। सर्वत्रेति। सामान्यसामान्यवति ।
गुणगुणवति। क्रियाक्रियावति। सर्वस्मिन् विषये धर्मिवचनो द्रव्याभिधार्या। धर्मवचनो भावाभिधायी। यत एवन्तेन कारणेन न तयोर्द्रव्यभावशब्दयोर्वाच्ये विशेषः परमार्थतः कश्चनास्ति। ___तद्वयांचष्टे। तस्मादित्यादि। निश्चयप्रत्ययविषयत्वेन करणेन। न कश्चिविशेषः। तथा हि यथा गोत्वमित्युक्ते तत्रैवागोव्यवच्छेदे निश्चयस्तथा गौरित्युक्ते . यद्यप्यप्रतिक्षिप्तभेदान्तरस्यागोव्यवच्छिन्नस्याभिधानन्तथाप्यंगोव्यवच्छे