SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ४. सामान्यचिन्ता १४६ क्षिप्तभेदान्तस्यानश्वोय मिति प्रयुंजते। अत एव पूर्वत्र प्रतिक्षिप्तभेदान्तरेण शब्दवृत्तेः सामानाधिकरण्यं', न विशेष्यविशेषणभावः। गोत्वमस्य शुक्लमितिवत् । तन्मात्रविशेषेण बुद्धस्तदा श्रयभूताया एकत्वेनाऽप्रतिभासनात् वच्छेदस्य प्रकाशनाय। अप्रतिक्षिप्तभेदान्तरमेवाश्वव्यवच्छेदन्तथा प्रकाशनायेत्यन्ये पठन्ति। तदाप्ययमर्थः । अप्रतिक्षिप्तभेदान्तरन्तमेवाश्वव्यवच्छेदमश्वव्यावृत्तिरूपं प्रयुञ्जते अभिदधत्यनश्वोयमित्यनेन धर्मिवचनेन शब्देन । किमर्थम् (।) तथाप्रकाशनायाप्रतिक्षिप्तभेदान्तरस्य प्रकाशनायेति । येनैव धर्मवाची शब्द: प्रतिक्षिप्तभेदान्तरः। अत एव पूर्वत्रेति धर्मवाचिनि शब्दे प्रतिक्षिप्तम्भेदान्तरं येनेति। सामान्येनान्यपदार्थ कृत्वा भावप्रत्ययः कर्तव्यः। पश्चाच्छब्दवृत्तेरित्यनेन सम्बन्धः । अन्यथा प्रतिक्षिप्तं भेदान्तरत्वादिति स्यात्। एवमन्यत्राप्येवंजातीयेषु शब्देषु व्युत्पत्तिर्द्रष्टव्या। - भिन्ननिमित्तयोः शब्दयोरेकस्मिन्नधिकरणे वृत्तिः सामानाधिकरण्यं । विशेष्यविशेषणभावो व्यवच्छेद्यव्यवच्छेदकभावः। उदाहरणङ् गोत्वमस्य शुक्लमिति । गुणशब्दस्याभिधेयवल्लिङ्गवत्त्वेन नपुंसकत्वं (1) शुक्ल इत्यन्ये पठन्ति। एवं चाचक्षते (1) गुणशब्दो हि प्रतिक्षिप्तभेदान्तरेण गुणमात्रे वर्तमान उपात्तो गु'णमात्रवृत्तीनां शुक्लादिशब्दानां पुल्लिङ्गत्वं । तद्वति तु वर्तमानानामभिधेय- 56b वल्लिङ्गता। एवं चानयोर्द्धर्ममात्रवृत्त्योर्न सामानाधिकरण्यं नापि विशेषणविशेष्यभाव इति। कस्मान्न सामानाधिकरण्यमित्याह । तन्मात्रेत्यादि। एतत्कथयति बुद्धिप्रतिभासिन्येवार्थसामानाधिकरण्यादि। न बाह्ये स्वलक्षणे तस्यावाच्यत्वात् (1) केवलमध्यवसा'याद् बाह्येप्युच्यते। यदि च धर्मद्वययुक्तकर्मिप्रतिभासिनी शब्दद्वयजनिता बुद्धिरेकार्थोत्पद्येत भवेत्सामानाधिकरण्यं । इह तु तन्मात्रविशेषेण प्रतिक्षिप्तभेदान्तरेण गोत्वमात्रविशेषणोपरक्ताया बुद्धस्तदाश्रयभूताया इति विशेषणविशेष्यभावः सामानाधिकरण्याश्रयभूताया एकत्वेन धर्म्यभेदेनाप्रतिभासनात्। गोश्त्वशुक्लत्वाभ्यां युक्तमेकन्धर्मिणं गृहीत्वा बुद्धेरप्रतिभासनादित्यर्थः। यद्वा तदाश्रयभूताया इति तदेव गोत्वमाश्रयभूतं यस्यास्तस्या बुद्धस्तन्मात्रविशेषेण प्रतिक्षिप्तधर्मान्तरेण गोत्वमात्रेण विषे (? शे) षेण सह गोपिण्डस्यैकत्वेनाप्रतिभासनात्। तथा ह्यस्य गोत्वमिति प्रयोगे निष्कृष्टरूपं धर्म प्रतियती 1 Gzi-mthun-pa-ñid-dam.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy