________________
प्रमाणवात्तिकस्ववृत्तिटीका ( १/६३ )
यदाऽयं प्रतिपत्ता तदन्यव्यवच्छेदभावानपेक्ष पिण्डविशेषेऽश्वव्यवच्छेदमात्रं जिज्ञासते तथाभूतज्ञापनार्थम् । तथाकृतसंकेतेन शब्देन प्रबोध्यतेऽत्र ' नैवाश्वइति । यदा व्यवच्छेदान्तरानिराकांक्षः तं जिज्ञासते, तदा तथा प्रकाशनाय अप्रति
१४८
व्यावृत्तं गोपिण्डं जिज्ञासते तदा यावदश्वाद् व्यावृत्तिमर्थान्तरभूतामारोप्य तथैव संकेतपूर्वकं लौकिकेन धर्मवाचकेन शब्देन न कथयति ( 1 ) तावन्न परस्य जिज्ञासितोर्थः प्रतिपादयितुं शक्यते ( 1 ) अतस्तं प्रत्यनश्वत्वमस्येत्युच्यते । एवं हि धर्मणोऽप्राधान्यादन्यव्यावृत्तरूपानाक्षेपः कृतो भवत्यश्वादेवैकस्माद् व्यावृत्तिश्च । न तदैवमुच्यतेऽनश्व इत्यनेन ह्यन्यव्यावृत्तस्यापि रूपस्याक्षेपः कृतः स्यात् ( 1 ) न चैवम्परेण जिज्ञासितमजिज्ञासितं च कथयन् कथन्नोन्मत्तः स्यात् ।
यदा पुनरन्यव्यावृत्तरूपसाकांक्षेऽश्वाद् व्यावृत्तं गोपिण्डं जिज्ञासते । तदापि यावदश्वव्यावृत्तिविशिष्टं पिण्डं धर्मिस्वभावतयाऽरोप्य तथैव संकेतपूर्वकं लौकिकेन धर्मिवाचकेन न कथयति तावन्न परस्य जिज्ञासितोर्थः प्रतिपादयितुं शक्यते - 56a तस्तं प्रत्यनश्वो' यमित्युच्यते । एवं हि धर्मिणः प्राधान्यादन्यव्यावृत्तरूपाक्षेपः कृतो भवत्यश्वव्यावृत्तश्च गोपिण्डः कथितो भवति । न तदैवं ख्याप्यतेऽनश्वत्वमस्येति परजिज्ञासितान्यव्यावृत्तरूपानाक्षेपप्रसङ्गात् । अजिज्ञासितं चार्थं कथयन् कथन्नोन्मत्तः। सर्वश्च शाब्दो व्यवहारः संकेतपूर्वक: संकेतश्च विकल्पकल्पि तार्थपूर्वक एवेति विकल्पैर - प्यनेनैव द्वारेण धर्मधर्मिभावप्रतीतिर्युक्ता ।
तेन यदुच्यते ( 1 ) भवतु धर्मधर्मिवाचकानां भेदान्तरप्रतिक्षेपाप्रतिक्षेपार्थप्रवृत्तिः । धर्मिधर्मविकल्पानान्तु कथं प्रतिपत्तिरित्यपास्तं ।
एतदेव त्या स्पष्टयन्नाह । यदायमित्यादि । प्रतिपत्तेति श्रोता । तस्माद् अश्वाद्योऽन्यो महिषादिस्तस्माद् व्यवच्छेदो महिषादिव्यावृत्तः स्वभावस्तस्य भावानपेक्षः स तानपेक्षः । पिण्डविशेषे गवि । अश्वव्यवच्छेदमात्रं जिज्ञासते । किमस्याश्वाद् व्यावृत्तं रूपमस्तीति । तथाभूतज्ञापनार्थमिति यथा प्रतिपत्त्रा ज्ञातुमिष्टन्तदनुरोधेन तथाभूतस्याश्वाद् भेदमात्रस्य ज्ञापनार्थन्तथाकृतसंकेतेनेत्यश्वव्यवच्छे
दमात्रे प्रतिक्षिप्तभेदान्तरे कृतसंकेतेनानश्वत्वं शब्देन प्रबोध्यते प्रकाश्यतेऽनश्वत्वमस्य पिण्डस्यास्तीति । अश्वाद्यो व्यवच्छेदस्तदपेक्षया महिषादिभ्यो व्यावृतयो ( र् ) व्यवच्छेदान्तराणि । तेष्वनिराकांक्षः प्रतिपत्ता । तमिति पिण्डं । अप्रतिक्षिप्तभेदान्तरेणाश्वव्यवच्छेदेन युक्तङ् गोद्रव्यं ज्ञातुमिच्छतीति यावत् । अपरित्यक्तानि महिषादिव्यवच्छेदान्तराणि येन । तस्मिन्नपरित्यक्तभेदान्तरे । तत्रैव वाश्वव्यवच्छेदे । धर्मिवाचिनं शब्दं प्रयुञ्जते वक्तारोऽनश्वोयमिति । कथं प्रयुञ्जत इत्याह । तथा प्रकाशनायेति । अप्रतिक्षिप्तभेदान्तरस्याश्वव्यव