________________
४. सामान्यचिन्ता
१४७
तावता सर्वत्र न भेदः। अन्यत्राऽपि पुरुषेच्छावशात् प्रवृत्तस्य प्रतिबन्धाभावात् । यथा एक क्वचिद् एकवचनेन ख्याप्यते तद् अविशेषेऽपि आदरा'द्यभिधाना बहुवचनेन ख्याप्यते ॥ . . प्रयोजनाभावात् तु न संकेतभेदः स्यादिति चेत् । तदप्यस्त्येव। एवम्
भेदान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोद्वयोः । (सङ्केतभेदस्य पदं) ज्ञातृवाञ्छानुरोधिनः ॥६३॥
र्थान्तरेपीत्यव्यतिरिक्तेपि धर्मे (1) किं कारणं (1) तथा प्रयोगदर्शनाभ्यासात् । वस्तुभेदे सति षष्ठयाः प्रयोगदर्शनाभ्यासाद् देवदत्तस्य कमण्डलुरित्यादौ ।
एतदुक्तम्भवति। वस्तुभिन्नम्भवतु मा वा भूत् सर्वथा व्यतिरेकविभक्तिरिच्छामात्रानुरोधिनी केवलं प्रयोगदर्शनाभ्यासाच्छब्दार्थम्भिन्नमिव दर्शयतीति । तावतेति विभक्तिप्रयोगमात्रात्। सर्वत्रेत्यर्थाभेदेपि। गौर्गोत्वमित्यादौ न धर्मधर्मिणोः परमार्थतो भेदः। तस्मादन्यत्राप्यर्थाभेदेपि पुरुषेच्छावशात् प्रवृत्तस्य । व्यतिरेकाभिधायिनः शब्दस्य प्रतिबन्धाभावात् ।. दृष्टा च पुरुषेच्छावशाच्छब्दानां प्रवृत्तिरसत्यपि तथाभूते घाटे वाच्य इत्याह। यथेत्यादि। एकम्वस्तु क्वचित् प्रकरणे एकवचनेन ख्याप्यते। यथा त्वमिति। तदविशेषेपि एकत्वाविशेषेपि तदेव वस्तु बहुवचनेन' यूयमिति। अतश्चैकस्मिन्नपि बहुवचनदर्शनान्न यथावस्तु शब्दानाम्प्रवृत्तिरिति गम्यते। युष्मदि गुरावेकेषा'मित्यतिदेशवाक्याद् एकस्मिन्नपि बहुवचनमिति चेत्। चिन्त्यमेतत्। किमतिदेशवाक्येनैकस्य बहुत्वं क्रियते किम्वा बहुवचनमात्रमप्राप्तं विधीयत इति (1) न तावदी पक्षो वचनमात्रेण वस्तूनाम्विधानासम्भवात्। द्वितीयेपि पक्षे सिद्धवेच्छामात्रेण शब्दानां प्रवृत्तिरिति। एवन्तावद्विभक्त्यभावदोषः परिहृतः (1) ___ संकेताभावदोषन्तु परिहन्तमेवोपन्यस्यति (1) प्रयोजनाभावात् त्वित्यादि । धमिधर्मशब्दाभ्यामेकस्याभिधानात् प्रयोजनाभावः। तदपि प्रयोजनमस्त्येव । गोत्वापेक्षया भेदान्तराणि द्रव्यत्वपार्थिवत्वादीनि । तेषां प्रतिक्षेपोऽस्वीकारः । तौ प्रतिक्षेपाप्रतिक्षेपौ यथाक्रमन्तयोयोद्धर्ममिवाचिनोः शब्दयोर्यः संकेतभेदस्तस्य (1) किम्विशिष्टस्य ज्ञातृवाञ्छानुरोधिनः प्रतिपत्त्रिच्छानुविधायिनः पदं प्रयोजनं॥
एतदुक्तम्भवति। यदान्यव्यावत्तरूपनिराकाडाक्षः प्रतिपत्ताश्वादेवैकस्माद्
1 Panini I: 2:58.