________________
१४६ प्रमाणवात्तिकस्ववृत्तिटीका (१।६२) विभक्तेरप्ययोगः स्यात् । तस्या हि भेदा श्रयत्वादिति चेत् ।
(द्वयोरेकाभिधानेऽपि) विभक्तिर्व्यतिरेकिणी।
भिन्नमर्थमिवान्वेति वाच्ये लेशविशेषतः ॥६२॥ न वै शब्दानां प्रवृत्तिः क्वाऽपि विषयस्वभावायत्ता । इच्छातो वृत्त्यभावप्रसङ्गात् । ते भेदाभेदयोर्यथा नियोगेच्छा तथा नियुक्तास्तं अर्थ अप्रतिबंधेन प्रकाशयन्ति । तस्मात् गौः गोत्वं चेति (आभ्यां) एकार्थाभिधानेऽपि कस्यचिद्
विशेषस्य प्रत्यायनार्थ कृते संकेते भेदे अनर्थान्तरेऽपि व्यतिरिक्तार्था विभक्ति430b रर्थान्तरमिवादर्शयन्ती प्रतिभाति। तथा प्रयोगदर्शनाभ्यासात्।
नियमस्य शेषे विभाषेति' विकल्पनात्। द्वाभ्यां धर्ममिशब्दाभ्यामेकस्यार्थस्या- . भिधानादित्यर्थः। एकं चेद् द्वाभ्यामभिधेयन्त तो व्यर्थः संकेतः । तथा चेति धर्मधर्मिणोरभेदे व्यतिरेकिण्या इति व्यतिरेकाभिधायिन्या गोर्गोत्वमिति षष्ठ्याः। तस्या इति व्यतिरेकविभक्तेर्भेदाश्रयत्वाद् वस्तुभेदमाश्रित्य प्रवृत्तेः। यथा देवदत्तस्य कमण्डलुरिति । एवं संकेताभावे. व्यतिरेकविभक्त्यभावे च चोदिते।
विभक्त्यभावदोषन्तावत्परिहरन्नाह । द्वयोरित्यादि । धर्ममिवाचिनोः शब्द. योरेकस्यार्थस्याभिधानेपि विभक्तिर्व्यतिरेकिणी। व्यतिरेकस्य वाचिका षष्ठी। इव शब्दो भिन्नक्रमः। भिन्नमिवार्थमन्वेति दर्शयति। वाच्ये संकेतभेदकृतेन लेशेन मात्रया यो विशेषस्ततः कारणान्न तु परमार्थतो वस्तुभेदात्।
यद्वयाचष्टे। न वै शब्दानामित्यादिना। विषयस्वभावायत्तेति बाह्यस्वलक्षणायत्ता (1) किं कारणम् (1) इच्छातः पुरुषेच्छावशादभावेष्वपि वृत्त्यभावप्रसङ्गात्। त इति। इच्छाप्रतिबद्धवृत्तयः शब्दा यथा येन प्रकारेण भेदप्रतिपादनेन व्यतिरिक्ते यथा राज्ञः पुरुष इति । अव्यतिरिक्ते यथात्मैव ह्यात्मनो द्रष्टेति । तथा नियुक्ता इत्यभिन्नेप्यर्थे भेदमिवोपादाय प्रयुक्तास्तमर्थमप्रतिबन्धेन भिन्नमिव प्रकाशयन्ति। वस्तुतः स्वलक्षणस्याभेदेपि यत एवन्तेन कारणेन। गौ रिति धर्मिवाचिनमाह। गोत्वमिति धर्मवाचिनं। आभ्यामेकाभिधानेप्यगोव्यावृत्तस्य गोरभिधानेपि कस्यचिद् विषयस्य प्रत्यायनार्थमिति। अगोव्यावृत्तिनिमित्तस्य गोत्वस्य प्रकाशनार्थं । अगोव्यावृत्तिमात्रं गोत्वशब्देन प्रतिपाद्यमित्येवंकृते संकेते
भेदे । व्यतिरिक्तार्था न विभक्तिरस्य गोत्वमिति भवति षष्ठी। व्यतिरिक्तोऽर्थोस्या 55b इति विग्रहः । धर्मिणस्स'काशाद् धर्ममर्थान्तरमिवादर्शयन्ती प्रतिभाति । अन
1 Panini. 2: 3:65.