________________
४. सामान्य चिन्ता
१४५
शब्दप्रतिपत्तिभेदो हि सङकेतभेदात् । न वाच्यभेदोऽस्ति ॥ ननु च संकेतभेदो न युक्तः। द्वयोरेकस्याभिधानात्। तथा च व्यतिरेकिण्या
स्यावस्तुत्वात् । अपोह्यत्वे च वस्तुत्वं स्यादिति।
तदयुक्तं यतः (।) सर्वभावानां स्वेनैव स्वेनैव रूपेणोत्पद्यमानानां सर्वस्मादपोहः स्वहेतुभ्यः सिद्ध एव। ____ अथ कथमसौ ज्ञायत इति चोद्यते । तत्किङ्गौरतीतानागतवर्तमानाऽश्वादिस्वभावः प्रत्यक्ष प्रतिभासते। नेति चेत्। कथं न तत्र सर्वापोहः प्रत्यक्षसिद्धः । न हि प्रमाणं हस्ताभ्याङ्गृहीत्वान्यदपोहत्यपि तु नियतरूपार्थप्रकाशनमेवास्यान्यापोहं। तस्मान्नियतरूपार्थप्रतिभास एव प्रत्यक्षस्य सर्वस्मादपोहग्रहः। तच्च स्वविषयन्निश्चाययद् यदेवं न भवति तत्सर्वमन्यत्वेन निश्चाययत्यतो युगपत्सर्वस्यान्यस्य सामान्यनाविशेषेण निषेधः क्रियते। सामान्यस्यानि रितविशेषरूपत्वात् । तदुक्तम् (1)
"अतद्रूपपरावृत्तवस्तुमात्रप्रसाधनात् (।)
सामान्यविषयं प्रोक्तं लिङ्गभेदाप्रतिष्ठितेरि"ति (प्र०स०) तेनापोह्यस्य कस्यचिद् वस्तुत्वमिष्यत एव ।
न चापोह्यत्वाद् वस्तुत्वमित्यत्र किञ्चिद् प्रमाणमस्त्यभावस्याप्यपोह्यत्वान्न चास्य' वस्तत्वमित्यक्तं। तस्माद यगपत सर्वापोहलक्षणेनागोपोहेनैकस्मिन्नपि 55a पिण्डे गोत्वं । प्रत्येकाश्वाद्यपोहेनानश्वत्वासिंहत्वामहिषत्वादयो जातिभेदाः कल्पितास्तद्वारेण च तदभिधायकाः प्रवर्तन्त इति यत्किञ्चिदेतत् । ___यदि व्यवृत्तिव्यावृत्ताऽभिधेयार्थस्य न भेदः। कथं व्यावृत्तिव्यावृत्त इति शब्दज्ञानभेदः। तथा हि व्यावृत्तिरित्यन्यः शब्दो व्यावृत्त इत्यन्य एव शब्दः । तथा ज्ञानभेदोपि (1) व्यावृत्तिरित्युक्ते धर्ममात्रम्प्रतीयते । व्यावृत्त इति धर्मीति। तत आह (1) शब्देत्यादि । शब्दाद् धर्ममिवाचिनो या प्रतीतिः सा शब्दप्रतिपत्तिः। शब्दश्च शब्दप्रतिपत्तिश्चेति विरूपैकशेषः । शब्दभेदः शब्दाच्च या प्रतिपत्तिस्तस्याभेद इत्यर्थः संज्ञासंज्ञिसम्बन्धिकरणं संकेतस्तस्य भेदात् । संकेतभेदं चानन्तरमेव (१।६३) भेदान्तरप्रतिक्षेपेत्यादिना प्रतिपादयिष्यते। न वाच्यभेदोस्ति धर्मर्मिशब्दयोर्वस्तुत इत्यध्याहारः॥ ___ ननु चेत्यादि परः। किं पुनर्वाच्याविशेषे संकेतभेदो न युक्त इति चेदाह। द्वयोरित्यादि। कर्तरि चेयं षष्ठी। कर्तृकर्मणोः कृतीति उभयप्राप्तौ कर्मणीति
१६