________________
१४४
प्रमाणवात्तिकस्ववृत्तिटीका (१।६१) तस्मात् यैव व्यावृत्तिः स एव व्यावृत्तः ।
नापि गोरभिन्नाश्वव्यावृत्तिरश्वव्यावृत्तौ गौरि त्यप्रतीतिप्रसंगात् । गोविनाशे चाश्वस्योत्पत्तिप्रसङ्गादश्वनिवत्तेविनष्टत्वात । तस्मान्नास्त्येव व्यावत्तिः।।
तेन यदुच्यते भट्टो द्यो त क रा भ्यां। “योयमगोपोहः स किं गवि भिन्नेऽर्थो भिन्नः। यदि भिन्नः किमाश्रितोऽथानाश्रितः (1) यद्याश्रितस्तदाश्रितत्वाद् गण 54b इति गोशब्देन तदा गुण्यभिधीयते न गोद्रव्यमिति । गौस्ति'ष्ठतीति सामानाधिकरण्यं
स्यात। अथानाश्रितः केनार्थेन षष्ठ्यर्थः। गोरपोह इति। अथाभिन्नो गौरव स्यादिति न किञ्चिदनिष्ठं। अयं चापोहः प्रतिवस्तु यद्येकोनेकसम्बन्धी च तदेव गोत्वमि"ति (1)
तन्निरस्तं। अन्यव्यावृत्तेरेवाभावात् केवलं स्वहेतुतः स्वकीयेन रूपेणोत्पन्नो भावोन्यस्माद् व्यावृत्तस्तस्य चान्यस्माद् व्यावृत्तिः कल्प्यते। यतश्च न परमापर्थतो व्यावृत्तिरस्ति। तस्माद् यैव व्यावृत्तिः स एव व्यावृत्तः। द्वाभ्यामैकस्यैव विषयीकरणात् । तस्यैव चान्यव्यावृत्तस्य लिङ्गत्वं लिङ्गित्वं सम्बन्धो विकल्पविषयत्वञ्च (1) विकल्पो ह्यन्यव्यावृत्तं स्वाकाराभिन्नमध्यस्य पुरुषन्तत्र प्रवर्तयतीत्यत्यर्थकारित्वाद् (1) अतः स एव बाह्यः शब्दार्थोन्यव्यावृत्तः।
यदप्युच्यते कु मा रि ले न (1) कदाचिदेकस्मादेव भावस्यापोहः स्यात् । सर्वास्मादा। यद्येकस्मादेव तदा यथाश्वापोहद्वारेण गोद्रव्यस्य गौरित्यभिधाननन्तथा सिंहादेरपि स्याद् अश्वापोहस्य गोशब्दप्रवृत्तिनिमित्तस्य भावात् । तदाह ।
“ततोश्वापोहरूपत्वात् सिंहादिः सर्व एव ते।
तन्निमित्तमगोपोहं विभ्रदुच्येत गौरिती"ति।' अथ सर्वस्मादपोहो गोद्रव्यस्य। तत्रापि यदि प्रत्येकमपोह्यं अश्वादयस्तदा. पोह्यानामानन्त्यादपोह एव न सिध्येत्। अपोह्यानां च भिन्नत्वादपोहभेदः प्रसज्यते। तथा चैकस्मिन्नपि पिण्डे जातिबहुत्वाज्जात्यन्तरबुद्धिः स्यात् । जात्यन्तरेष्विवाश्वादिषु।
. "ततो गौरिति सामान्यं वाच्यमेकं न सिध्यति।"२ नापि ते समुदायरूपेण सर्वेऽपोह्याः सम्भवन्ति। समुदायो ह्येकदेशत्वेन वा स्यान्न चापोह्यानामेकदेशादित्वं सम्भवति। नापि तेषां समुदायो व्यतिरिक्तोऽस्त्यव्यतिरेके चानन्त्यं तदवस्थं। न चापि सामान्यरूपेण तेऽपोह्याः सामान्य
1 Slokavārtika. 57 Ibid, 60
'