________________
४. सामान्यचिन्ता
१४३
(तत्रापि चान्यव्यावृत्तिरन्यव्यावृत्त इत्यपि ।
शब्दाश्च निश्चयाश्चैव संकेतमनुरुन्धते) ॥६१।। तत्रान्यापोहे सत्तात्र्यावृत्तिरपि (अन्या) अन्य एव व्यावसो धर्मीति नास्ति। तव्यावृत्तनिवर्तमानस्य तद्भावप्रसङ्गात्। तथा च ब्यावृत्तरप्यभावः।
ततश्च स्थितमेतद् (1) अन्यव्यवच्छेद: शब्दलिङ्गाभ्यां प्रतिपाद्यत इति।
ननु व्यवच्छेदोपि यदि पदार्थादभिन्नस्तदैकेन प्रमाणेन शब्देन वास्य विषयीकरणेन्यस्य वैयर्थ्यं स्यात सर्वात्मना निश्चितत्वात । अथ भिन्नस्तदापि तस्याश्रितत्वादेकव्यवच्छेदोपाधिके पदार्थे प्रमाणेनैकेन निश्चीयमाने पूर्वोक्तेन न्याय्येन सर्वेषां व्यवच्छेदानां निश्चितत्वादन्येषां प्रमाणादीनामप्रवृत्तिः स्याद् (1) अतः समानः प्रसंग इति। .
तन्न। यतो न भावानामन्योन्यव्यवच्छेदोऽभिन्नो भिन्नो वाऽस्ति। केवलं ' स्वहेतुभ्य एव भिन्नाः समुत्पन्ना इत्युक्तम्वक्ष्यति च ॥ ____ कथन्तीन्यव्यावृत्तिरित्यादि व्यपदेशो बुद्धिश्च प्रवर्तत इत्यत्राह । तत्रापीत्यादि। तत्रापि चन्यापोहे शब्दार्थे । अन्यस्माद् व्यावृत्तिरन्यस्माद् व्यावृत्तोयमित्यपि (1) ये शब्दा धर्ममिवचनाः निश्चयाश्चोभयविषयास्ते संकेतमनुरुन्धते । संकेतानविधानेनैषां धर्मधर्मविषयविभागः कल्पितः परमार्थतस्तु व्यावृत्तिरेव नास्तीत्यर्थः।
तयाचष्टे। तत्रान्यापोह इत्यादिना गोरश्वाद् व्यावृत्तिरन्या धर्मभूता अन्य एवाश्वाद् व्यावृत्तो धर्मी। व्यावृत्त्या विशिष्टो गौरित्येतन्नास्ति। किन्तु यैव व्यावृत्तिः स एव व्यावृत्त इति वक्ष्यति।। ___ यदि चाश्वाद् व्यावृत्तिरनश्वता गोद्रव्यस्यान्या स्यात् तदाश्वव्यावृत्तेरपि गोद्रव्येण निवर्तितव्यम्भेदात् । ततश्च तयावृत्तेरनश्वतायाः सकाशानिवर्तमानस्य गोस्तद्भावप्रसङ्गात् । अश्वभावप्रसङ्गादश्ववत्। एवं ह्यश्वव्यावृत्तेरनश्वत्वलक्षणाया गौळवृत्तो भवति यद्यस्याश्वत्वं स्यात् । तथा च गोरश्वभावापत्तेः। अश्वाद् गोावृत्तिस्तस्या अभावः। गवाश्वयोरेकत्वात्।। तेन यदुक्तजनजैमिनीयैः (।)
"सर्वात्मकमेकं स्यादन्यापोहव्यतिक्रम” इति ।' तान्प्रतीदमुक्तं । यद्यन्यव्यावृत्तिरर्थान्तरं स्याद् गवारवादीनामेकत्वं स्यादिति।
1श्लो० वा०