________________
१४२ प्रमाणवात्तिकस्ववृत्तिटीका (१।६०) __यद्यपि सर्वतो भिन्नांशरहितभावे हि' अनुभवः। अथाऽपि तावता सर्वभेदेषु निश्चयो न स्यात्। कारणान्तरापेक्षत्वात्। अनुभवो हि यथाविकल्पाभ्यास निश्चयज्ञानं जनयति। यथा रूपदर्शनाऽविशेषेऽपि कुणपकामिनीभक्ष्यविकल्पाः ।
तत्राऽपि बुद्धेः पाटवं तद्रागाभ्यासकषाये त्यादयोऽपि अनुभवाद् भेदनिश्च4390 योत्पत्तौ सहकारिणः। तेषामेव च प्रत्यासत्यादिभेदात् पौर्वापर्यम् । यथा' जन
कत्वाध्यापकत्वाविशेषेऽपि पितरमायान्तं दृष्ट्वा पिता मे आगच्छतीति निश्चिनोति नोपाध्याय इति । सोऽपि निश्चयोऽसति भ्रान्तिकारणे भवति । तस्मात् नानुभूते सर्वाकारनिश्चयः॥
यद्यपीत्यादिना व्याचष्टे । सर्वभेदेषु क्षणिकत्वादिषु तावतेत्यनुभावमात्रेण । निश्चयोत्पादनंप्रत्यनुभवज्ञानस्य कारणन्तरापेक्षत्वात्। तदेवाह अनुभवों होत्यादि। यथाविकल्पाभ्यासमिति यस्य यादृशो विकल्पाभ्या सस्तेन सहकारिणा जनयतीत्यर्थः। उदाहरणमाह। यथेत्यादि। मृतस्त्रीरूपदर्शनाविशेषेपि परिव्राटकामुकशुनां यथाक्रमं कुणपकामिनीभक्ष्यविकल्पा यथाविकल्पाभ्यास
जायन्ते। न च विकल्पाभ्यास एव सहकारी। किन्त्वन्योप्यस्तीत्याह । तत्रेत्यादि। तत्रापि रूपदर्शनाविशेषेपि। बखेः पाटवन्तीक्ष्णता। यथा योगिनां बद्धिपाट वाद् दर्शनमात्रेण क्षणिकत्वादिनिश्चयः। आदिशब्दादर्थित्वसामर्थ्यादिपरिग्रहः। इत्यादय इत्येवमादयः। अनुभवात् प्रत्यक्षादुपादानकारणात्सकाशाद् भेदनिश्चयस्योत्पत्तौ सहकारिणः । यदा तर्हि बहुषु निश्चयेषु यथोक्तानि कारणानि न भवन्ति तदा तेषां निश्चयानां कथं क्रमभाव इत्याह। तेषामेव चेत्यादि (1) तेषामिति निश्चयकारणानां प्रत्यासत्तितारतम्यभेदात् । यस्य निश्चयस्य प्रत्यासन्नतमन्निश्चयकारणन्तत्तावदादावुत्पद्यते। आदिशब्दादधिमात्रतारतम्यस्य भेदा निश्चयानां पौर्वापयं । यथेत्यादिनोदाहरणमाह। पितेव यदोपाध्यायो भवति । तदै
कस्य पुरुषस्य जनकत्वाध्यापकत्वाविशेषेपि । पितरमायान्तं दृष्ट्वा पिता मे आगच्छ54a तीति निश्चिनोति' नोपाध्याय इति। पितृत्वनिश्चये कारणस्य प्रत्यासन्नतमत्वात् ।।
- ननु सत्यपि क्षणिकत्वनैरात्म्यविकल्पाभ्यासे सहकारिणी तत्त्वादर्शिनां न प्रत्यक्षात् क्षणिकत्वादिनिश्चयो भवतीत्यत आह । सोपीत्यादि । असति भ्रान्तिकारणे भवति न तु निश्चयप्रत्ययमात्रात् । यत एवमसति भ्रान्तिकारणे सहकारिप्रत्यसाकल्ये च सति प्रत्यक्षान्निश्चय उत्पद्यते न केवलात् । तस्मानानुभूत इत्यादि।
1 Thams-cad-las tha-dad-pa cha-bas-dan-bral.bahi-no.bo-ñid. ñams-su-myon.