________________
४. सामान्यचिन्ता
१४१ नैवं निश्चयानाम्। किञ्चिद् निश्चिन्वतोऽप्यन्यत्रानिश्चयेन प्रवृत्तिभेदान् ग्रहणाग्रहणे। तस्माद् यो निश्चयः स एव तद्ग्रहणम् । अन्यथा एकाकारेऽपि तन्न स्यात् ॥
किं पुनः सर्वतो भिन्नवस्तुस्वभावेऽनुभवोत्पादेऽपि तथैव न स्मार्तो निश्चयो भवतीति। सहकारिवैकल्यात्। ततश्च
प्रत्यक्षेण गृहीतेऽपि विशेषेऽशविवर्जिते । यद्विशेषावसायेऽस्ति प्रत्ययः स प्रतीयते ॥६०॥
ग्रहणं (1) तदिति तस्मान्न निश्चयानिश्चयवशाद् यथाक्रमं प्रत्यक्षस्य ग्रहणाग्रहणे किंतु प्रतिभासनाप्रतिभासनवशात्। तस्मादनिश्चये सति प्रतिभासनमात्रेण प्रत्यक्षगृहीतव्यवस्थापनन्न विरुध्यते। नैवं निश्चयानां प्रत्यक्षवदनिश्चितस्याप्याकारस्य प्रतिभासनमात्रेण ग्रहणमप्रतिभासमात्रेणाग्रहणमिति सम्बन्धः । कस्मादिति चेदाह। किञ्चिदित्यादि । यथा पुरुषं दृष्ट्वा पुरुषत्वनिश्चिन्वतोप्यन्यत्र तस्करादावनिश्चयेन प्रवृत्तिभेदाद् व्यवहारभेदात्। तथा हि पुरुषत्वनिश्चयेन पुरुषोनुरूपो विश्वासादिव्यवहारो दृश्यते। चौरत्वानिश्चयाच्च तदनुरूपो भयादिव्यवहारो न दृश्यते । ततश्च यन्निश्चयानुरूपः प्रवृत्तिभेदस्तस्य निश्चयेन ग्रहणं। यदनिश्चयानुरूपश्चाप्रवृत्तिभेदस्तस्याग्रहणमिति । यत एवन्तस्मादित्यादि। अस्येत्याकारस्य (1) अन्यथेति यदि निश्चयवशात्तस्य ग्रहणं न व्यवस्थाप्यते। तदैकाकारेपि । निश्चितत्वेनाभिमतेप्याकारे। तदिति निश्चयेन ग्रहणं' न स्यात्। 53b
किं पुनः कारणमिति परः। सर्वतो भिन्न इति सजातीयविजातीयायावृत्तेः । तथैवेति यथानुभवं सर्वेष्वेव भेदेषु न स्मार्तो निश्चयो भवति । यतो भेदान्तरेन्याकारव्यवच्छेदार्थमन्यापोहवादिना प्रमाणान्तरवृत्तिरिष्यते।
सहकारिवैकल्यादिति सिद्धान्तवादी। न ह्यनुभवमात्रनिश्चयहेतुः किन्त्वभ्यासादयोपि सहकारिणः (1) ते यत्रैव सन्ति तत्रैवाकारे निश्चयो नान्यत्र ।
ननु क्षणिकाकारेपि सर्वदा दर्शनादभ्यासोस्त्येवेति निश्चयः स्यात् । नानुभूतनिश्चितविषयोत्राभ्यासोभिप्रेतो न च क्षणिकं भ्रान्तिनिमित्तसम्भवादनभूतनिश्चितमिति कथन्तत्राभ्यासः। तस्मात् स्थितमेतत् यत्रैवाकारेऽभ्यासस्तत्रैव निश्चय इति ।
तदेवाह। ततश्चेत्यादि। विशेषे सर्वतो व्यावृत्ते नीलादिलक्षणे। अशविवजिते निविभागे सर्वात्मना प्रत्यक्षेण गृहीतेपि सति यस्य विशेषस्यावसाये निश्चयेस्ति सहकारिप्रत्ययः स प्रतीयते निश्चीयते।