________________
अवयवे समुदायोपचारात |OT १२ प्रमाणवार्तिकस्ववृत्तिटीका (१।३) 421a पक्षो धर्मी। प्रयोजनाभावादनुपचार इति चेत्। न। सर्वधर्मिधर्मप्रतिषेधा
बन्धनिबन्धनमेव गमकत्वं । न चानुपलब्धेः कार्यादिहेतावन्तर्भाव: स्वसाध्ये प्रतिबन्धानपेक्षत्वात् । हेतोश्च सकाशात् साध्यप्रतीतिस्तदायत्तत्वे सति स्यात् (1) न च संयोगे सति तदायत्तत्वमसंयुक्तानां संयोगाभावात (1) संयुक्तानामपिन संयोगतस्तदायत्तताऽन्यत एव संयुक्तानामुत्पत्तेः। एवं समवायेपि वाच्यं । तस्मातदायत्तत्वन्तादात्म्यतदुत्पत्तिभ्यान्तेन कार्यस्वभावानुपलम्भबहिर्भूतानां संयोग्यादीनामहेतुत्वन्तदायत्तत्वाभावेनाविनाभावाभावात् ।
अथ तदायत्तत्वमस्ति तदेव तहि गमकत्वे निमित्तमिति स हेतूस्त्रिधैवेति सिद्धं।
ननु तथापि कथमनुमानस्योत्थाननिर्विकल्पकप्रत्यक्षेण धर्मर्मितत्सम्बन्धाग्रहात् स्वातन्त्र्येण वस्तुद्वयाधिगतेः।
उच्यते (1) सविकल्पकेनापि धूमप्रदेशादीनां धर्ममिभावग्रहणमुपर्युपरिभावप्रतिभास एव (1) स च निर्विकल्पकेप्यस्ति केवलं विकल्पेतरयोनियोरुल्लेखानुल्लेखकृतो विशेषः (1) तच्च निर्विकल्पकं ज्ञानं यथागृहीतविषयमेवेदमिहास्तीदं नास्तीति विधिप्रतिषेधं जनयत् प्रमाणमिष्यते। तेन धर्मधर्मिणोः स्वरूपनिश्चयः सम्बन्धनिश्चय (: प्रत्यक्षकृत) एव भवतीति ।।
पक्षधर्म इत्युक्तं सूत्रे, पक्षमश्च धर्मर्मिसमुदायः। न च प्रतिवादिनं प्रति समुदायधर्मत्वं हेतोः सिद्धन्तेन स सर्वो हेतुरसिद्धः स्यात्। सिद्धौ वानुमानस्य वैयर्थ्यमित्याह।
पक्षो धर्मीति। अवयवे समुदायोपचारात्। एकदेशत्वं च समुदायोपचारनिमित्तन्तेन न दृष्टान्तधर्मी पक्ष उच्यते।
ई श्व र से नः प्राह। धमिध (म्र्मों हेतुरित्येतावद वक्तव्यं प्र) योजनाभावादनुपचार इति । तदाह। प्रयोजनेत्यादि। नेत्यादिना प्रतिषेधति। न प्रयोजनस्याभावः कथं सर्वधर्मिधर्मप्रतिषेधार्थत्वादपचारस्येत्यपेक्ष्यते। असत्युपचारे धर्मिधर्म इति निर्देशः कार्यः। तथा च दृष्टान्तधर्मिणोपि धर्मों हेतुः स्यात्। उपचारे
तु सर्वस्य धर्मिणो धर्मः प्रतिषिद्धो भवति । कथ (मिति चेदाह। तदेकदेशत्वादि)। 6a तथा हि समुदायस्यावयवेषूपचारः। तदेकदेशत्वं निबन्धनत्वेन न सर्वत्रोपचारः ।
साध्यधर्मी च तदेकदेशत्वात् पक्षस्यावयवत्वात् पक्षोपचारयोग्यस्तस्य यो धर्मस्तत्प्रतिपत्त्यर्थमुपचारकरणं। तथा चेत्युपचारयोग्यर्मिप्रतिपत्तौ चाक्षुषत्वादिपरिहारः। आदिशब्दात काकस्य का(यादित्यादि।
हा
1In the margin.