________________
१. हेतुचिन्ता
तदनुमानप्रसङ्गात्। चन्द्रोदयकाल एव तदनुमानन्तदैव व्याप्तेर्गृहीतत्वा. दिति चेत्।
__ यद्येवन्तत्कालसम्बन्धित्वमेव साध्यसाधनयोः। तदा च स एव कालो धर्मी तत्रैव च साध्यानुमानं चन्द्रोदयश्च तत्सम्बन्धीति कथमपक्षधर्मत्वम् (1) अथ कालो नेष्यते न तदा तर्खेतदनुमानम्व्यभिचाराद् (1) अथ बौद्धा नामेतदनुमानन्नास्ति कालाभावात् (1)
तदयुक्तं। पूर्वाह्णादिप्रत्ययविषयस्य महाभूतविशेषस्य काल इत्यभिधेयस्याभ्युपगमात् ।। एवमन्यत्रापि पक्षधर्मत्वं योज्यं ।
ननु भवतु पक्षधर्मत्वे सत्यनुमानस्य प्रामाण्यन्तथापि पक्षधर्म इति पृथग् लक्षणं न कर्त्तव्यन्तदङशव्याप्तवचनेनैव गतत्वात्।
सत्यं (1) किन्त्वपक्षधर्मस्यापि साध्यव्याप्तस्य हेतुत्वनिरासार्थं कृतं । महानसादिदृष्टधूमादि चोदधावग्न्यनुमाने।
ननु व्याप्तस्य लिङ्गत्वं न च महानसादिगतो धूम उदधौ साध्येनाग्निना व्याप्तः (1)
सत्यं (1) केवलं व्याप्तो हेतुरित्येतावन्मात्रकेण लक्षणवचनेन यत्रैव व्याप्यधर्मस्तत्रैव व्यापकधर्मानु (मान) मित्येतन्न लभ्यते। ततश्चान्यत्रापि साध्यानुमानाशङकानिवृत्त्यर्थं पक्षधर्मवचनं। अनुपलब्धेरपि पक्षधर्मत्वमस्त्येव। यदा ह्यन्यस्य भूतलादेरुपलम्भजननयोग्यतैवान्यानुपलब्धिस्तदा । योग्यतान्यभूतलादिस्वभावेति कथन्नानुपलब्धेः पक्षधर्मत्वं । कृतकत्वादेरप्येवं शब्दादिधर्मत्वं । पुरुषधर्मरूपाया अप्यनुपलब्धेरन्यभूतलादिकार्यत्वमेव परमार्थतस्तद्धर्मत्वन्तदायत्तत्वात्। धूमादेरपि कार्यस्यैवं प्रदेशादिधर्मत्वङकेवलम्विकल्पेन तेषां सम्बन्धिस्वरूपमेव पक्षस्यायं धर्म इति व्यवस्थाप्यते।।
हेतुत्वं च धूमादेरविनाभावेन व्याप्तमज्ञातावि'नाभावस्यागमकत्वेन () हेतु- 5b त्वात्। अविनाभावश्च कार्यस्वभावाभ्यां व्याप्तः । विधिप्रतिषेधयोश्च साध्यत्वे सत्यर्थान्तरविधाने (कार्यहेतोः) स्वभावहेतोः प्रतिषेधे चानुपलब्धेस्तेन हेतु
स्त्रित्वेन व्याप्तोऽतोसौ त्रिविध एव भवति। न तु त्रिविधो हेतुरेव कार्यादेरप्यa/ ज्ञातस्याहेतुत्वात्। कारणव्यापकानुलुब्बीरपि प्रतिबन्धादेव गमकत्वं ।।
तथा हि (1) यत एव प्रतिबन्धात् कार्यव्याप्ये कारणव्यापके गमयतः। तत एव प्रतिबन्धात् कारणव्यापकानुपलब्धी कार्यव्याप्याभावङ्गमयतः । स्वभावानुपलब्धावपि यदा घटादेरुपलम्भजननयोग्य आत्मा उपलब्धिरुच्यतेन्यहेतुसाकल्ये चोपलम्भाव्यभिचारादुपलब्धिः सत्ता तदानयोस्तादात्म्यन्तेनात्रापि पक्षे प्रति