________________
sa
प्रमाणवात्तिकस्ववृत्तिटीका (१।३)
साधनस्य
नापि यत्र साधनधर्मस्तत्र साध्यधर्मं इत्यविशेषेणावगमेपि पक्षधर्मत्वं सिध्यति साध्यधर्मिधर्मतया विशेषेणाप्रतीतेः सामान्येनाभिधानात् । तस्माद् विशिष्टदेशाद्यवच्छिन्नसाध्यप्रतिपत्तये पक्षधर्मत्वन्दर्शनीयं ।
१०
तेन यदुक्तं "यत्र यत्र धूमस्तत्र तत्राग्निरित्यनेनैव पक्षधर्मस्योक्तत्वात् प्रदेशविशेषेग्निसिद्ध्यर्थन्धूमश्चात्रेति न वक्तव्यमुक्तार्थत्वादि" ति तदपास्तं ।
नन्वेवमनुमानस्य प्रामाण्येऽपक्षधर्म्ममप्यनुमानं प्रमाणं स्यादप्रतिपन्नाधिगमात् । यथाऽधस्तान्नदीपूरन्दृष्ट्वोपरिवृष्ट्यनुमानं । तथा शिशुरयं ब्राह्मणः मातापित्रोर्ब्राह्मण्यादिति । तदुक्तं ।
//‘“नदीपूरोप्यधो देशे दृष्टः (सन्नुपरिस्थितां । नियम्यो गमयत्येव ) ' वृत्तां वृष्टि नियामिकां ॥ एवं (प्रत्यक्षधर्मत्वं ज्येष्ठं हेत्वङ्ग ) ' [ मिष्यते ] । तत्पूर्वोक्तान्यधर्मत्वदर्शनाद् व्यभिचार्यते ।। पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मण' तानुमा । सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥ क्लेशेन पक्षधर्मत्वं यस्तत्रापि प्रकल्पयेत् । न संगच्छेत तस्यैतल्लक्ष्येण सह लक्षणं ॥ यथा लोकप्रसिद्धं च लक्षणैरनुगम्यते । लक्ष्यस्य लक्षणमेवं [स्यात्] तदपूर्वन्न साध्यत" इति ।
अत्रोच्यते । कस्मादुपर्येव वृष्ट्य (नुमानं नान्यत्र ( 1 ) पूरस्य तत्सम्बन्धित्वादि ) 'ति चेत् । यद्येवं यतोयं नदीपूर आयातस्तत्र' वृष्ट्यनुमानन्नान्यत्र व्यभिचारात्। प्र॑रस्य च तत्सम्बन्धित्वनिश्चये सति गमकत्वमन्यथा (S) नैकान्तिकत्वं स्यात् । तथा शिशुरयं ब्राह्मणः मातापित्रोर्ब्राह्मण्यादित्यत्रापि यस्यैव शिशोब्रह्मण्यं साध्यन्तस्यैव मातापितृब्राह्मण्यलक्षणो धर्मः सम्बन्धी गमको न मातापितृ(ब्राह्मण्यमात्रमन्यसम्बन्धिमा) 'तापितृब्राह्मण्यस्यागमकत्वात् । तेनास्यापि पक्षधर्मत्वे सति गमकत्वमतो न क्लेशेन पक्षधर्मत्वकल्पना (1) यद्वा य एवाव्यभिचारे निमित्तं स एव हेतुर्यथा धूमस्याग्निकार्यत्वं ब्राह्मणभूतमातापितृजन्यत्वं च शिशोर्ब्राह्मण्यनिमित्तमिति तदेव हेतुर्युक्तोन्यस्य तत्कल्पना क्लेशेन स्यादिति । तथा न चन्द्रोदयात् समुद्रवृद्ध्यनुमानं चन्द्रोदयात् ( पूर्वं पश्चादपि )
१
1 In the margin.
22 Slokavārtika.
श्रर्थापत्ति० १७