________________
ह
१. हेतुचिन्ता
ननु यदि तदंशव्याप्तिर्दृष्टान्त एव गृह्यते तदानुमानस्योत्थानन्न स्यात् । साध्यधर्मिणि साध्यधर्मेण हेतोर्व्याप्त्यग्रहात् । तदा च पक्षधर्मो हेतुरिति व्यथं लक्षणमगमकत्वात् । सर्वोपसंहारेण व्याप्तिग्रहणेपि स्यात् + व्याप्तिग्राहकप्रमाणप्रतिपन्नविषयत्वेन स्मृतिरूपत्वात् । हेतुरिति च न वक्तव्यन्तदशव्याप्तिवचनेनैव गतत्वात् । तदङशव्याप्तिबलेन 41 च पक्षधर्मस्य गमकत्वन्न पक्षे सत्तामात्रेण तत्रस्थस्य गर्दभादेरगमकत्वात् । तस्मान्न पक्षधर्मो हेतुरिति पृथग् लक्षणम्वक्तव्यं ।
तदुक्तम् ।
नानुमानस्य प्रामाण्यं पक्षधर्मो
"अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किमि 'ति ।
किं चानुपलब्धेस्तावन्न पक्षधर्मत्वमन्यो॒पलब्धेः पुरुषधर्मत्वात् । स्वभावहेतोश्च ध-मिरूपत्वात् कार्यहेतोरपि स्वातन्त्र्येण धर्म्यनपेक्षत्वात् । न च कल्पितस्य पक्षधर्मस्य कार्यस्वभावहेतुत्वं साध्यव्याप्तिश्चेति न पक्षधर्मो हेतुरिति वक्तव्यं ।
तथा यदि हेतुत्वेन त्रित्वं व्याप्तन्तदा हेतुत्वस्यानियतत्वादन्यत्रापि संयोग्यादिषु हेतुत्वमनिवारितमेवेति त्रिधैवेत्यवधारणं न युज्यते ।
अथ हेतुत्वं त्रित्वेन व्याप्तन्तदा त्रित्वस्य हेतावनियतत्वात् कार्यादीनामप्यहेतु त्वन्ततश्च कार्यादेरेव हेतुत्वमिति न घटते ।
किं च । यद्यनुपलम्भस्य साध्यप्रतिबन्धो नास्ति तदाऽप्रतिबद्धोपि हेतुर्गमक इति त्रिधैव स इति नियमो न घटते ( 1 )
अथ प्रतिबन्धोस्ति तदा कार्यस्वभावयोरेवान्तर्भावात् त्रिधैव स हेतुरिति तथापि न युज्यते । हेत्वाभासास्ततोऽपर इति न युक्तं हेत्वन्तरस्यात्यन्तपरोक्षत्वान्न तदभावः प्रत्यक्षादिनिश्चित इत्ययुक्तमुक्तं
पक्षधर्मस्तवंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमाद्धेत्वाभासास्ततोऽपर इति ॥
अत्रोच्यते । यद्यपि साध्यसाधनयोर्व्याप्तिः सर्वोपसंहारेण प्रतिपन्ना तथापि न व्याप्तिग्रहणमात्रादिह साध्यधर्मिणीदानीं साध्यधर्म इति विशेषेण निश्चयो भवत्यनुमानात्तु स्यात् । तस्माद् प्रतिपन्नविशिष्ट देशादिसम्बन्धिसाध्यार्थप्रतिपादकत्वेन प्रमाणमेवानु मानन्तच्च पक्षधर्मत्वे सत्येव भवति नान्यथा । यतो नान्यदेशादिस्थेन साध्यधर्मिणान्यदेशादिस्थः साधनधर्मः सम्बद्धोऽतो विशिष्टदेशाद्यवच्छिन्नसाधनावगतिसामर्थ्यादेव • विशिष्टदेशाद्यवच्छिन्नसाध्यप्रतीतिरेवानुमानं (।) न तु धूममात्रादग्निमात्रप्रतीतिस्तस्या व्याप्तिग्राहकप्रमाणफलत्वात् ।
२