________________
प्रमाणवात्तिकस्ववृत्तिटीका (११३)
(३) हेतुस्त्रिधा
(४) हेत्वाभासाः पक्षधर्मस्तदंशेन व्याप्तो हेतुः, त्रिधैव सः । अविनाभावनियमात् ; हेत्वाभासास्ततोऽपरे ॥ ३ ॥
तु भ्रान्तत्वे सत्यपि प्रतिबन्धवशात् प्रामाण्यं (1) शब्दादिज्ञानस्य त्वेवं प्रामाण्येभ्युपगम्यमानेऽनुमानेन्तर्भावादपक्षधर्मस्यागमकत्वादर्थानर्थविवेचनाश्रयत्वमनुमानस्यैव। __ . ननु प्रतिबन्धवशादनुमानस्य प्रामाण्ये नित्यादिविकल्पस्यापि प्रामाण्यं स्यात् क्षणिकाद्यर्थे प्रतिबन्धाद (1) अथाध्यवसितार्थप्रतिबन्धेन प्रामाण्यं मणिप्रभायाम्मणिज्ञानस्य प्रामाण्यं स्यात् । तदपि ह्यध्यवसितेन मणिना सम्बद्धन्तस्मात् सत्यपि प्रतिबन्धे यद्देशादिसम्बन्धितया योर्थोध्यवसितस्तद्देशादिसम्बन्धितया सन्तानकत्वाध्यवसायात् तमर्थं प्रापयदनुमानज्ञानं प्रमाणमेव। न सर्वं ज्ञानं ।
अर्थानर्थविवेचनं बाधिगमरूपमाकारोनुमानम्प्रमाणत्वात्। यद्वा लिङ्ग मेवानुमानमार्थानर्थविवेचनस्यानुमानाश्रयत्वं । तद्विप्रतिपत्तेरिति तस्मिन्ननुमाने सम्मोहात्। तद्वयवस्थापनाय तस्यानुमानस्य विप्रतिपत्त्यपनयनेनावस्थापनायाह सूत्र का रः।
पक्षधर्म इत्यादि।
यद्यनुमानं व्यवस्थाप्यं कस्मात् पक्षधर्म इत्यादिना हेतुमेव व्यवस्थापयतीति चेत्। अदोषोयं हेतुविप्रतिपत्तिद्वारेणानुमाने विप्रतिपत्तेस्तद्वयुत्पत्तिद्वारेणैव तस्य व्यवस्थापनं। अनुमानज्ञानं च त्रिरूपलिंगादुत्पद्यमानं लोकप्रतीतमेवातो विप्रतिपत्तिः प्रतीत्यैव निराक्रियते।
यद्वानुमानशब्देन यदा लिङ्गमेवोच्यते तदा तद्विप्रतिपत्तेर्हेतुमेव व्यवस्थापयतीत्यदोषः।
अत्र श्लोके लिंगस्य लक्षणं संख्यानियमः संख्यानियमकारणम्विपक्षनिवृत्तिइचोक्ता। पक्षधर्मस्तदडशेन व्याप्त इति लक्षणं ।
तस्य पक्षस्याङशः साधयितुमिष्टो धर्मस्तेन व्याप्त एवेत्यवधारणं (1) विधैवेति संख्यानियमः। अविनाभावनियमादिति. संख्यानियमकारणं । त्रिष्वेवाविनाभावस्यं नियतत्वादित्यर्थः । हेत्वाभासास्ततोपर इति विपक्षनिवृत्तिः। तस्माद्धेतुत्रयादन्ये हेत्वाभासाः ।