________________
१. हेतुचिन्ता
अथैकस्मिन् क्षणे प्रत्यक्ष प्रवृत्तमपि निश्चयवशात् क्षणसामान्यविषयत्वेनैकसन्ततिविषयन्तदयुक्तं। प्रतिभासमानेनैव हि विषयेण निश्चयवशात् प्रत्यक्ष सामान्यविषयं व्यवस्थाप्यते न परमार्थतः। स्वलक्षणविषयत्वात्। यथा लिंगविषयं प्रत्यक्षं। तथा हि प्रतिभासमानमिदं धूमस्वलक्षणन्तार्णम्वा पार्णम्वान्यद्वा सम्भवति (1) तत्र च विशेषानवधारणेन क्षणमात्रनिश्चयेन च स्वलक्षणविषयमपि सामान्य विषयं प्रत्यक्षं व्यवस्थाप्यते। प्रत्यक्षपृष्ठभाविनो निश्चयस्य प्रत्यक्षविषयानुसारित्वात्। न पुनरेकक्षणविषयम्प्रत्यक्षमेवं व्यवस्थापयितुं शक्यते यतो यः प्रत्यक्ष प्रतिभासते क्षणो नासौ निश्चितो नापि पूर्वक्षणरूपो परक्षणरूपो वा सम्भवति भिन्नकालत्वात्। तत् कथन्तत्र विशेषानवधारणेन क्षणमात्रनिश्चयेन च क्षणसामान्यविषयं प्रत्यक्षं व्यवस्थाप्येत । प्रत्यक्ष पृष्ठभाविनः स एवायमिति निश्चयस्य सामान्यविषयत्वेपि न सन्तानविषयत्वं । प्रतिपन्नप्रतीयमानयोविषयीकरणेनानागतक्षणानिश्चयाद् विजातीयव्यावृत्तरूपविषयत्वाच्चात एव क्षणस्य प्रतिभासेप्ययं घट इति ज्ञापननिश्चयः।
ननु यद्यर्थक्रियासमर्थो वस्तुसन्तानो (न) प्रत्यक्षानुमानाभ्यां परिच्छिद्यते (1) कथन्तर्हि तयोः प्रवर्तकत्वम् (।) वस्तुस्वरूपमात्रपरिच्छेदादिति ब्रूमः । तथा ह्यग्न्यादिकम्वस्त्वेकत्र प्रबन्धवृत्त्या दाहाद्यर्थक्रियासमर्थं प्रत्यक्षेण निश्चिन्वन्नन्यत्रापि देशादावेतदुपलभ्यमानं प्रबन्धवृत्त्यैवेदृग्विधार्थकारीति निश्चाययति। स एव पुनः कालान्तरे फलार्थी तत्स्वरूपम्पर्येषमाणोग्न्यादिकं प्रत्यक्षानुमानाभ्यां दृष्ट्वा तदेवेदमिति निश्चयपूर्वकं प्रवर्त्तते । तेनायमर्थस्तत्स्वरूपमात्रपरिच्छेदे प्रमाणव्यापारो न प्रबन्धवृत्तिपरिच्छेदे। नाप्यर्थक्रियासामर्थ्यपरिच्छेदे पूर्वमेवास्य सर्वस्य परिच्छिन्नत्वात् । तेन प्रत्यक्षानुमानयोः प्रवर्तकत्त्वं युक्तमेव । कथन्तर्वार्थानर्थविवेचनस्यानुमानाश्र[यत्वमुक्तम् ।........................... ..................] त नैवात्रार्था (? त्म) ना[भिप्रेतमपि तु चतुरार्यसत्यं ।] यतो मुक्त्यर्थिनो वयं मुक्तिश्च चतुरार्यसत्यदर्शनाद् भवतीति भगवतोक्तं (1) तद्दर्शनञ्च' भावनाभ्यासतो निष्पद्यते (1) भावनायां प्रवृत्तिश्च चतुरार्यसत्यनिश्चयेन (1) 4a तन्निश्चयश्च परोक्षत्वादनुमानादेव भवतीत्यर्थानर्थविवेचनाश्रयत्वमनुमानस्यैव ।
__ अर्थो निरोधमार्गावुपादेयत्वादनों दुःखसमुदयौ त्याज्यत्वात् । यद्वार्थः परमार्थसत्यमनर्थः (संवृत्तिसत्यं तयोर्यद् विवेचनं स्वरूपेण व्यवस्थापनन्तस्यानुमानाश्रयत्वात्। अर्थानर्थविवेचनकारि च सर्वं ज्ञानं न स्वलक्षणं गृह्णात्यपि त्वध्यवस्यतीति भ्रान्तमेव (1) तेन यदि शब्दादिज्ञानमर्थानर्थविवेचनाश्रयमिष्यते तदपि भ्रान्तत्वादप्रमाणमेव (1) अत एव न तस्येह व्युत्पाद्यताप्रसंगः। अनुमानस्य