________________
प्रमाणवात्तिकस्ववृत्तिटीका (१॥३)
"दृष्टेषु सम्वित्सामर्थ्यभाविन स्मरणादि"त्यादि।
तस्मादन्यथा व्याख्यायत इत्यपरे। आचार्य दि ग्ना ग प्रणीतं प्रमाणलक्षणादिकमर्थो युक्तत्वात्। ती थि क प्रणीतं न युक्तत्वादनर्थस्त योविवेचनं युक्तायुक्तत्वेन व्यवस्थापनन्तस्यानुमानाश्रयत्वात्। अनुमानमेव ह्याश्रित्य लक्षणवाक्यानां युक्तायुक्तत्वं व्यवस्थाप्यन्न प्रत्यक्षन्तस्याविचारकत्वादिति।
तदप्ययुक्तं। यतो लक्षणवाक्यानां न स्वरूपेण युक्तायुक्तत्वमपि त्वर्थद्वारेण (1) स चार्थों यथानुमानेन युक्तः प्रतीयते तथा प्रत्यक्षेणापि। तथा च वक्ष्यति (1)
"प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति ।” (प्र० वा० ३।१२३) तथा
"पक्षधर्मत्वनिश्चयः प्रत्यक्षत" इत्यादि। योपि मन्यते (1) सत्यमर्थानर्थविवेचनं प्रत्यक्षानुमानाभ्यां क्रियत एव (1) केवलं यदर्थानर्थविवेचनस्यानुमानाश्रयत्वमुच्यते तत्प्रत्यक्षविषयेपि विवाद
सति नानुमानादन्यन्निर्णयनिबन्धनमस्त्यतोनुमानस्य प्राधान्यात्तद्विवेचनाश्रयत्वमुक्तमिति। ___एतदप्ययुक्तं । यतः प्रत्यक्षस्य स एव विषयो व्यवस्थाप्यते यो निश्चितो' न च निश्चिते विवादः सम्भवतीत्ययुक्तमेतत् । _ अन्यस्त्वाह (1) अर्थानर्थविवेचनमनुमानादेव भवति न प्रत्यक्षात् । यतो येर्थाना अनुभूतफला अनुभूयमानफला वा न ते प्रवृत्तिविषया निष्पन्नत्वात् फलस्य ।
तस्मादनागतार्थक्रियार्थन्तत्समर्थेष्वर्थानर्थेषु प्रवृत्तिः। न च तत्सामर्थ्यन्तेषु प्रत्य3b क्षेण प्रतीयते येन प्रवृत्तिविषयत्वं स्यात् । प्रवृत्तिसाध्यार्थक्रियाया भा'वित्वेन
तत्सामर्थ्य (कुर्वद्रूपता)स्यापि भावित्वात्। तस्मात् पूर्वानुभूतार्थक्रियासाधनवस्तुसाधात् प्रत्यक्षेष्वपि वस्तुष्वनागतफलयोग्यतानिश्चयो न प्रत्यक्षतस्तेनानुमानादेवार्थानर्थविवेचनमिति । ___ तदप्ययुक्त। यतो यदि सा योग्यता (कुर्वद्रूपता)र्थेषु वर्तमानकालभाविनी तदाभ्यासातिशयवतापि प्रत्यक्षेण निश्चीयेत । लिङ्गवत्। अथानागतैव सा तदानुमानेनापि (न) निश्चीयेतानागतेर्थे'नुमानाभावादिति वक्ष्यति।
एतेन यदुच्यते 'प्रवृत्तिविषयवस्तुप्रापणं प्रत्यक्षानुमानयोरविशिष्टमिति तदपि निरस्तं द्रष्टव्यं । अनागतार्थक्रियासमर्थो हि प्रवृत्तिविषयो न च तत्सामर्थ्य प्रत्यक्षानुमानाभ्यां निश्चीयत इत्युक्तं। परिच्छिन्नश्च प्रवृत्तिविषय इष्यते न च सन्तानः प्रत्यक्षादिक्षणेन परिच्छिन्नस्तत्कथं प्रवृत्तिविषयः।