________________
१. हेतुचिन्ता
५
महितमनर्थस्तयोर्विवेचनन्तस्यानुमानाश्रयत्वादनुमानमाश्रयो यस्येति विग्रहः । अनुमानेन ह्यर्थानर्थे निश्चित्यानुमानपृष्ठभाविना प्रबन्धप्रवृत्तेन ज्ञानेनार्थानर्थी यथाक्रमं प्राप्ति (परिहारार्थम्विभागेन व्यवस्थापयति । तस्मादनुमानाश्रयमर्थानर्थविवेचनं । तद्विप्रतिपत्तेरिति तस्मिन्न ) 'नुमाने विप्रतिपत्तेस्तद्व्यवस्थापनायाहेत्येवमेके व्याचक्षते ।
अत्र त्विदं चिन्त्यं । "
यदि तावदेवमवधार्यतेर्थाऽनर्थविवेचनस्यैवानुमानाश्रयत्वादिति (1) तन्न । अर्थानर्थाभ्यामन्यस्याप्युपेक्षणीयस्य तृतीयस्य विषयस्य यद्विवेचनन्तस्याप्यनुमानाश्रयुत्वात् (अर्थानर्थविवेचनस्य चानियतत्वात् + प्रत्यक्षाश्रयत्वमनिवारितमिति कोतिशयोर्नुमानस्य ख्यापितो येन तदादौ व्युत्पाद्यते । ) ' अथाप्येवमवधार्यते । अर्थानर्थविवेचनस्यानुमानाश्रयत्वादेवेति । तथाप्ययुक्तमवधारणं। अर्थानर्थविवेचनस्य प्रत्यक्षाश्रयत्वादपि । तथा ह्यर्थानर्थो विभक्तरूपावेव प्रत्यक्षे प्रतिभासेते । तच्च प्रत्यक्षमभ्यासातिशयसमासादितपाटवतया अपसारित भ्रान्तिनिमित्तं पाश्चात्यमर्थानर्थविवेचन[विकल्पं जनयति । एतदे (व) हि प्रत्यक्षस्यार्थानर्थविवे] ' चनाश्रयत्वं यदर्थानर्थौ विभागेनानुभूय यथानुभवन्तत्र निश्च यजननं ।
3a
न च शक्यम्वक्तुं पाश्चात्येनैवार्थानर्थे विभक्ताविति । विकल्पेन वस्तुस्वरूपस्याग्रहणाद् ग्रहणे वा विकल्पकत्वहानेर्विकल्पानुबद्धस्य प्रमातुः स्पष्टार्थप्रतिभासित्वविरोधात् ।
यत्र तु क्वचिद् विषये पाटवाभावाद् भ्रान्तिनिमित्तापनयनासमर्थं प्रत्यक्षं तत्रानुमानान्निश्चयः प्रार्थ्यते न सर्वत्र ( 1 ) तस्मात् प्रत्यक्षे स्वतः परतश्च प्रामाण्यनिश्चयः । निश्चाययिष्यते चायमर्थो द्वितीय परिच्छेद इति नेह प्रतन्यते ।
अवश्यं च प्रत्यक्षस्याभ्यासबलादपसारितभ्रान्तिनिमित्तस्य यथानुभवन्निश्चयजननात् स्वतोर्थानर्थविवेचनाश्रयत्वमेष्टव्यमन्यथानुमानस्यापि व्यवस्था न स्याद् धूमादेलिङ्गस्यानिश्चयात् । धूमादेरप्यनुमानात् प्रतिपत्तावनवस्था स्यात् । तत्रापि लिङ्गान्तरस्यानुमानान्तरेण निश्चयादिति ।
•
यदि च प्रत्यक्षमर्थानर्थविवेचनस्यानाश्रयस्तदा शास्त्रकारेण प्रकरणान्तरे यदुक्तं (1) "हिताहितप्राप्तिपरिहारयोर्नियमेन सम्यग्ज्ञानपूर्वकत्वादि त्यादि
तद् बाध्येत । तथा “न ह्यस्यामर्थम्परिच्छिद्येत्यादि । पुनश्चोक्तं
1 In the margin.