________________
प्रमाणवात्तिकस्ववृत्तिटीका (१३)
१-हेतुचिन्ता (१) पक्षधर्मता
(२) हेतुलक्षणम् अर्थानर्थविवेचनस्यानुमानाश्रयत्वात् तद्विप्रतिपत्तेः। तद्व्यवस्थापनायाह।
लोके नीचः यस्य दुष्टोन्वयः। एवन्ती थि क शास्त्राणि परप्रणीतानि चाचार्यनीति2b शास्त्रदूषणानि। विपर्यस्तज्ञानप्रभव' त्वाद् दुष्टान्वयाद् सतः प्राकृतानि। तेषु
सक्तिरनुरागो यस्य स तथोक्तः। कस्मात्पुनः प्राकृतसक्तिरित्याह। अप्रतिबलप्रज्ञ इति। अतोसो दुर्भाषितमपि सुभाषितमिति गृहीत्वा प्राकृते सज्यते। अप्रतिबलप्रज्ञत्वादेव चाचार्यसुभाषितानि स्वयं यथावदवबोद्धुमक्षमो दोषवत्त्वेन गृहीत्वा तैराचार्यसुभाषितैरन / आचार्ये च विद्वेषवान् भवतीत्याह। केवलमित्यादि। न केवलमनर्थी सुभाषितराचार्गीयैरपि तु विद्वेष्टयपीpमलैः परिगतः सन्नाचार्यदि ग्ना गं (1) किं भूतं सूक्ताभ्यासविद्धितव्यसनं । व्यवहितेनापि सम्बन्धो भवत्येव ।
"येन यस्याभिसम्बन्धो दूरस्थस्यापि तेन स” इति न्यायात् ।
शोभनमुक्तं सूक्तं भगवत्प्रवचनन्तत्राभ्यासस्तत्र विद्धितं व्यसनन्तत्रैवात्यर्थमासक्तत्वं यस्याचार्यदिग्नागस्य स तथोक्तः। अनेनाचार्यदिग्नागस्योपचितपुण्यज्ञानत्वमाह। उपचितपूण्यज्ञाना एव हि सुक्ताभ्यासविद्धितव्यसना भवन्ति। येनाऽप्रतिबलप्रज्ञ आचार्यसुभाषितैरनर्थी प्राकृतसक्तिश्च तेन कारणेनायं प्रमाण स मुच्च यो न परोपकारः। उपकरणमुपकारो भावे घन (पाणिनिः३।३।१८)। पर उत्कृष्ट उपकारो नास्माद् भवतीति कृत्वा न परोपकारोऽल्पस्तूपकारोस्त्येव स च प्रायशब्देन सूचित एव । इति शब्दो हेतौ (1) अस्माद्धेतोरस्माकं चिन्ता। महार्थमपीदं शास्त्रं न बहूनामुपकारकं जातन्तत्कथमस्यात्यर्थं साफल्यं कुर्यामित्येवमाकारा। आचार्ये च बोधिसत्वकल्पे विद्वेषः स्वल्पोप्यनर्थहेतुरतोहमाचार्यनीतेरविपरीतप्रकाशनेनाचार्ये बहुमानमुत्पाद्य ततोनर्थहेतोर्जनन्निवर्तयिष्यामीत्येवं दुःखवियोगेच्छाकारा करुणाप्यपिशब्दात्। इत्यत्रानुबद्धस्पहमिति द्वितीयेनेति शब्देन चिन्ताकरुणयोर्हेतुत्वमाह। इत्याभ्यां चिन्ताकरुणाभ्यां चेतश्चिरं दीर्घकालमत्र प्र मा ण स मुच्च य व्याख्याभूत प्र मा ण वा त्ति क रचनायामनुबद्धस्पृहं सन्तानेन प्रवृत्तेच्छमिति॥ __ यदि प्र मा ण स मु च्च् य व्याख्यां चिकीर्षुराचार्यधर्मकीर्तिः कस्मात् स्वातन्त्र्येणानुमानं व्यवस्थापयतीत्याशङ्कामपनयन्नाह। अर्थानर्थेस्यादि। अर्थो हित