________________
ग्रंथप्रयोजनम्
(शास्त्रारम्भप्रयोजनम्)
प्रायः प्राकृतसक्तिरप्रतिबलप्रज्ञो जनः केवलं, नानयेव सुभाषितैः परिगतो विद्वेष्टयपीामलैः । तेनायं न परोपकार इति नश्चिन्तापि चेत(श्चिरं), सूक्ताभ्यासविवर्द्धितव्यसनमित्यत्रानुबद्धस्पृहम् ॥२॥
प्रायःप्राकृतेत्यादि। अत्र चतुम्विधः श्रोतृदोष उद्भावितः। कुप्रज्ञत्वमज्ञत्वं अर्थित्वं अमाध्यस्थ्यञ्च । प्रायः शब्द ओकारान्तो बाहुल्यवचनः । प्रायो जनो भूयान् जनः। प्राकृतसक्तिः प्राकृतानि बहिःशास्त्राणि तत्र सक्तिर्यस्येति. (1) गमकत्वाद् व्यधिकरणो बहुब्रीहिः । प्राकृता वा सक्तिर्यस्येति । समानाधिकरण एव। प्राकृतविषयत्वाच्च सक्तिः प्राकृता । अनेन कुप्रज्ञत्वं श्रोतृदोष उक्तः।
अप्रतिबला शास्त्रग्रहणम्प्रत्यस (श)क्ता प्रज्ञा यस्य सोप्रतिबलप्रज्ञः प्रायो जन 'इति सम्बन्धः । अनेनाज्ञत्वमुक्तं (1) सुभाषितै नर्थ्यव,किन्तु सुभाषिताभिधायिनम्विद्वेष्टयपीामलैः परिगतः सन् । अनर्थी च विद्वेष्टि चेत्यर्थः । एतेन यथाक्रममनथित्वममाध्यस्थ्यं चोक्तं। अत्रापि प्रायो जन इति सम्बन्धनीयं। __ अन्ये तु प्रायश्शब्दस्या (?स) कारान्तोप्यस्ति निपातः (1) स च बाहुल्येनेत्यस्मिस्तृतीयार्थे स्वभावाद्वर्त्तत इति व्याचक्षते। ईर्ष्या परसम्पत्तौ चेतसो व्यारोषः। सैव मलश्चित्तमलिनीकरणात् । व्यक्तिभेदाद् बहुवचनं । यत एवन्तेन कारणेनायमारिप्सितो वा ति का ख्यो ग्रन्थः। परोपकारः परेषामुपकारः। उपक्रियतेनेनेति करणे घञ्। परान् वोपकरोतीति परोपकारः “कर्मण्यण्" (पाणिनि: ३।२।१)। परोपकार इति नः अस्माकं चिन्तापि नास्ति। कथन्तर्हि शास्त्ररचनायां प्रवृत्तिरित्याह। चेतश्चिरमित्यादि। चिरन्दीर्घकालं सूक्ताभ्यासेन . विद्धितं व्यसनं सक्तिस्तत्परता सूक्ताभ्यासविद्धितं व्यसनं यस्य चेतसस्त तथोक्तं । इति हेतोरत्र वा त्ति क रचनायामनुबद्धस्पृहं जाताभिलाषं चेत इति। एवमेके व्याचक्षते। .
__ अन्ये त्वन्यथा। कस्मादयमाचार्य धर्म की त्ति वर्वार्तिकन्यायेन प्रमाणसमुच्चयव्याख्यां करोति न पुनः स्वतन्त्रमेवं शास्त्रमित्यस्मिन् प्रश्नावसरे प्राह । प्राय इत्यादि। अस्य श्लोकस्यायं समासार्थः। चिन्तया करुणया च मे प्रमाण स मुच्च य व्याख्यायां चेतो जाताभिलाषमिति। चिन्ता करुणा च आचार्य दि ग्ना गरचितशास्त्रस्याल्पोपकारित्वेन। अल्पोपकारित्वञ्च श्रोतृजनापराधेन। पदार्थस्तूच्यते। प्राय इति बाहुल्येन प्राकृतसक्तिर्जन इति सम्बन्धः। प्राकृत उच्यते