________________
प्रमाणवात्तिकस्ववृत्तिटीका (११)
प्रथमं पूर्वार्द्धन स्वार्थसम्पदुक्ता। स्वार्थसम्पच्च कायत्रयलक्षणा त्रिभिविशेविशिष्टोभाविता। आवरणप्रहाणविशेषेण। गाम्भीर्यविशेषेण। औदार्यविशेषेण च।
तत्रात्मात्मीयाद्याकारप्रवृत्ता ग्राह्यग्राहकाकारप्रवृत्ताश्च वैधातुकाश्चित्तचैत्ताः कल्पना। सैव जालम्बन्धनात्मकत्वात् । तद्विधूतं विध्वस्तं सवासनं पुनरनुत्पत्तिधर्मत्वमापादितं यासां मूर्तीनान्तास्तथोक्ताः । एतेनावरणप्रहाणविशेष उक्तः। गाम्भीर्यौदार्यविशेषौ तु गम्भीरोदारपदाभ्यामुक्तौ। विधूतकल्पनाजाला गम्भीराः श्रावकप्रत्येकबुद्धाद्यविषयत्वात्। उदारास्सकलज्ञेयसकलसत्वार्थव्यापनात्। मूर्तयस्त्रयः कायाः स्वाभाविकसाम्भोगिकनैर्माणिका यस्य भगवतः। असौ विधूतकल्पनाजालगम्भीरोदारमूत्तिः। भद्रं कल्याणमभ्युदयनिःश्रेयसलक्षणं । तत् समन्तान्निरवशेषन्तर्थिनां यथा भव्यम्भवति यस्मात् सकाशा (दसौ समन्तभद्रः। एतेन परार्थसम्पदुक्ता। अस्याश्च परार्थसम्पदः समन्तस्फुरणत्विष)' इत्यनेन सिद्धयुपाय उक्तः। (त्विषो रश्मय इह तु यथावस्थितवस्तुग्रहण) एवं साधयेण धर्मदेशना अभ्युदयनिःश्रेयससाधनविषयास्त्विष इव त्विष उच्यन्ते । समन्तो निरवशेषः परार्थसाधनोपायः स्फर्यते व्याप्यते विनयेभ्यः साकल्ये[न] (कथनात् याभिस्ताः समन्तस्फरण्यस्तत्रतथाभूतास्त्विषो धर्मदेशना यस्य स समन्तस्फरणत्विट् । नमः शब्दयोगाच्च
सर्वत्र चतुर्थी। 2a यदा तु रूढिरपेक्ष्यते तदायं समन्तभद्रश) १ 'ब्दो महायाने बोधिसत्वविशेषे
रूढ इति बोधिसत्वस्येयं पूजा (1) पदार्थस्तु पूर्ववद् योज्यः। अयन्तु विशेषो विधूतकल्पनाजालत्वं बोधिसत्वभूम्यावरणप्रहाणतो द्रष्टव्यं । गाम्भीर्यं श्रावकप्रत्येकबद्धपथग्जनाविषयत्वतः। औदार्यन्तु बोधिसत्वम (1) हात्म (?त्म्य)तः । कायत्रयमप्यनुरूपं बोधिसत्वानां विद्यत ए]'व प्रकर्षगमनात्तु बुद्धानां व्यवस्थाप्यत इति ॥
सन्त्येव हि सन्तोस्य वा त्ति का ख्यस्य शास्त्रस्य ग्रहीतारस्तथापि श्रोतृदोषबाहुल्येन सन्तमप्युपकारमसन्तमिव कृत्वा सूक्ताभ्यासभावितचित्तत्त्वमेव शास्त्रारम्भे कारणन्दर्शयन् । अयं च महार्थभ्रङशे हेतुदोषस्त्यक्तुं युक्त इत्येतच्च वक्रोक्त्या कथयितुं द्वितीयं श्लोकमाह।
1 Missing portion is found in the margin in a different hand.