________________
४. सामान्यचिन्ता
१३६ क. न्यायमीमांसामतनिरासः
- (क) व्यावृत्तस्वभावा भावाः यदि भ्रान्तिनि(वृत्यर्थ)। गृहीतेप्यन्यदिष्यते । स्यादेतत् । निर्भागस्य वस्तुनो ग्रहणे कोऽन्यस्तदा न ग्रहीतः। स तु भ्रान्त्या नावधार्यत इति प्रमाणान्तरं प्रवर्तते। यद्येवम् ।
तव्यवच्छेदविषयं सिद्धं (तद्वत्ततोऽपरम् ॥५८॥
असमारोपविषये प्रवृत्तेरपि; असमारोपविषये किं च वृत्तेः। भ्रान्तिनिवृत्यर्थं प्रवृत्तस्य प्रमाणम्। तत्
ये दृष्टे तस्मिन्नुपाधिमत्यदृष्टा भवन्ति। किन्त्वनन्ये। अत: कारणात्तद्ग्राह्ये। तस्योपाधिमतो ग्रहे सकलोपाध्युपकारक स्वभावस्य ग्रहः । - योपि भट्रो मन्यते (1) भिन्ना भिन्ना एव धर्मास्तेनैकधर्मेण धर्मिण्यवधार्यमाणेन सर्वधर्मावधारणं भेदात्। तदाह।
"आविर्भावतिरोभावधर्मकेष्वनुयायि यत्। तमि यत्र वा ज्ञानं प्राग्धर्मग्रहणाद् भवेत् ॥ (१५२) अनन्तधर्मके धर्मिण्येकधर्मावधारणे।
शब्दोभ्युपायमात्रं स्यान्न तु सर्वावधारण” (१७८) इति । सोप्यभयपक्षभाविदोषप्रसंगादेव निरस्तः॥ ___ यदीत्यादिना पराभिप्रायमाशंकते। एकेन निश्चयज्ञानेन सर्वात्मना गृहीतेपि वस्तुनि भ्रान्तिनिवृत्त्यर्थं। अन्यदिति प्रमाणान्तरं ।
स्यादेतदित्यादिनैतदेव व्याचष्टे। निर्भागस्य निरंशस्य वस्तुनो ग्रहणे सति कोन्यो भागः तदा निर्भागवस्तुग्रहणकाले। न गृहीतो नाम सर्व एव गृहीतः (1) स तु गृहीतोपि भ्रान्त्या नावधार्यत इति प्रमाणान्तरं प्रवर्तते।
यद्येवमित्यादिना सिद्धान्तवादी। यत्तद् भ्रान्तिनिवृत्त्यर्थमुत्तरम्प्रमाण मिष्यते 53a तद्यवच्छेदविषयमन्यापोहविषयं सिद्धं पूर्वोक्तेन न्यायेन । तवुत्तरप्रमाणवत् । तत उत्तरकालभावि प्रमाणादपरमपि पूर्वकालभाविनिश्चयज्ञानन्तदपि व्यवच्छेदविषयं। किं कारणम् (1) असमारोपविषये वृत्तः ।
1 Hdog-pa. s Slokavartika प्रत्यक्षपरि०
2 De-ni-gyi-naḥo.