________________
१३८
प्रमाणवार्तिकस्ववृत्तिटीका ( ११५७ )
I
438a प्रवृत्तौ कस्यचित् प्रधानस्य अङ्गा' भावात् तदपेक्षया तथोच्यन्ते । शब्देनानाक्षेपान ते कस्यचित् अङ्गभूता इति कथमुपाभयः ।
यदि लक्षितज्ञानलक्षणात् ' अदोष इति चेत् समानः प्रसङ्गः । स तावत् नान्तरीयकतया तैरुपाधिभिरुपलक्ष्यमाण एकेनाऽप्युपाधिना सर्वात्मनोपलक्षित इति तववस्थः प्रसंग ः ।
को ह्यत्र विशेषः । शब्दा' एव एनमुपलक्षयेयुः तल्लक्षिता वा उपाधयो उप( लक्षा) येयुः । स तावत् तदानीं सर्वोपकारक इति न किञ्चित् ॥ ५६॥ तस्मात् ।
कोपकारके ग्राह्ये (नोपकारास्ततोऽपरे । दृष्टे तस्मिन्नदृष्टा ये तद्ग्रहे सकलग्रहः) ॥५७॥ - इति संग्रहश्लोकः ।
शब्वेनाऽनाक्षेपादप्रतिपादनान्न ते उपाधयः कस्यचित् प्रधानस्याङ्गभूता इति किमुपाधयो नैवेति यावत् । यद्युपाधिमात्रं चोद्यते तथापि शब्दैर्लक्षिता ये उपाधयस्तैरुपाधिमतो लक्षणात् परिच्छेदाददोषः । शब्दप्रयोगवैयर्थ्यदोषो नेति चेत् । स समानः सर्वोपाधिग्रहणप्रसङ्गः । तमेवाह । स तावदित्यादि । स इत्युपाधिमान् । नान्तरीयकतयेत्युपाध्युपाधिमतोरव्यभिचारेण उपलक्ष्यमाण एकेनाप्युपाना निरशत्वात् सर्वात्मनोपलक्षित इति तदवस्थः सर्वोपाधिग्रहप्रसंगः ।
स्यान्मतं (1) यत्र शब्देन साक्षादुपाधिमतश्चोदनन्तत्रायं प्रसंग: । न तु यत्रा - र्थवशादित्यत आह । को ह्यत्र विशेष इति । शब्दा वा एनमुपाधिमन्तं साक्षात् प्रतिपादयेयुः । तल्लक्षिता वा शब्दलक्षिता वोपाधय उपाधिमन्तं लक्षयेयुरिति को विशेषो न कश्चित् ( 1 ) तथा हि ( 1 ) स तावदुपाधिमान् तदानीमुपाधिबलेन लक्षणकाले निश्चीयते । सर्वोपकारकः सर्वेषामुपाधीनामुपकारक इति । तथा च पूर्ववत् सर्वोपाधिग्रहणप्रसंगोऽतो लक्षितलक्षणादिति यदुक्तमेतन्न किञ्चित् पूर्वोक्तदोषदुष्टत्वात् । यस्मादुपाध्युपकारिकाणां शक्तीनाम्व्यतिरेकेऽनवस्था
स्यादतो न व्यतिरिक्ताः शक्तयः ।।
तस्मादेकस्योपाधेरुपकारके तस्मिन्नुपाधिमति ग्राह्येभ्युपगम्यमाने उपाध्यन्तराणामुपकारकाः शक्तिभेदाः । तत एकोपाध्युपकारकस्वभावादपरेऽन्ये न भवन्ति
1 Hdi-dag-legs-goms-pa. 2 Skabs-Ses-bya-ba.