________________
४. सामान्यचिन्ता
१३७ कदाचिदप्यगृहीतस्तदुपकारात्मा तद्वत्त्वेन तदप्रहाद् । ___ यदि पुनः केवलान्' उपाधीन शब्दज्ञानान्युपलीये रन् ।
तवाऽपि असम्बन्धात् तत्प्रतिपादनद्वारेण सर्वप्रतिपत्तिर्न स्यादिति चेत् । तदाऽपि शब्वैरनाक्षेपात्। तत्र शब्दाप्रवृत्तिशब्दयोगो व्यर्थः स्यात् । अर्थक्रियाश्रयः सर्वो व्यवहारो विधिप्रतिषेधाभ्याम् । उपाधयश्च तत्राऽसमर्थाः, समर्थश्च नैवोच्यत इति किं शब्दप्रयोगः। ततश्च उपाधय उपाधयोऽपि न स्युः। क्वचित्
काभिः शक्तिभिस्सह कवाचिदप्यगृहीतस्तदुपकारात्मा। शक्त्युपकारात्मा। उपाध्युपकारिकाणां शक्तीनां याः शक्तयस्तदात्मेति यावत्। शक्तीनान्ततो व्यतिरेकात् । तद्वत्त्वेन उपाध्युपकारशक्तिमत्त्वेन। तदग्रहादुपाधिमत्त्वेनाप्यतो व्यर्थंवोपाधिकल्पनेति भावः। ___ एवन्तावद् यदोपाधिमति ज्ञानशब्दयोवृत्तिस्तदोक्तो दोषः। यदोपाधिष्वेव तदान्यो दोषो वक्तव्यः। तदभिधानायोपाधिपक्षमुपन्यस्यति। यदि पुनरित्यादि। केवलानित्याश्रयरहितान् उपाधीन् विशेषणभेदान् शब्दज्ञानान्युपलीयेरन् । प्रत्यायकत्वेन समाश्रयेयुः। तस्योपाधिमतः शब्दज्ञानरसमावेशादविषयीकरणात्। तत्प्रतिपत्तिमुखेनोपाधिमत्प्रतिपत्तिमुखेन। एकेनापि शब्दज्ञानेन सर्वस्योपाधेः प्रतिपत्तिः (1)
अत्रापि दोषमाह। तदापीत्यादि। तस्योपाधिमतः। अनाक्षेपादित्यप्रतिपादनात्। तत्रेत्युपाधिमति (1) कथं व्यर्थ इत्याह। अर्थक्रियेत्यादि। अर्थक्रियां . पुरोधाय प्रवृत्तेरर्थक्रिया आभय आलम्बनं यस्य व्यवहारस्य स तथा। सर्वो यावान् कश्चित् प्रेक्षा पूर्वकारिणां व्यवहारो हिताहितविषयः। स च द्वाभ्यां प्रकाराभ्यां विधिप्रतिषेधाभ्यां तृतीयप्रकाराभावात् । इत्थंभूतलक्षणा (पाणिनिः) चेयं तृतीया। उपाध्यो (?धय)श्च गोत्वादयस्तत्रार्थक्रियायामसमर्थाः। समर्थश्च व्यक्तिभेदः शब्देनैवोच्यत इति किमफलैः शब्दप्रयोगः। यतश्चैवमर्थक्रियासमर्थो व्यक्तिभेदो न चोच्यते शब्दैः । ततश्चाभिमता उपाधयो गोत्वादय उपाधयो न' 32b स्युर्न विशेषणानि स्युः। यस्मात् क्वचिदुपाधिमत्युपाधिद्वारेण शब्दस्य ज्ञानस्य वा प्रवृत्तौ सत्यां। कस्यचिदुपाधिमतः। प्रधानस्येति विशेष्यस्याङ्गाभावाद् विशेषणभावात् तदपेक्षया प्रधानापेक्षया। तथोच्यन्ते। उपाधय इत्युच्यन्ते। इयं न्यायोपाधिव्यवस्था। यदा तूपाधय एव शब्देनोच्यन्ते। तदा तस्योपाधिमतः
1Ni-che-la.
१८