________________
प्रमाणवात्तिकस्ववृत्तिटीका ( ११५६ )
यदि प्रत्युपाधि उपकारकत्वानि तस्य नैव स्वात्मभूतानि' नाऽपि तत उपकारमनुभवन्ति । किं तस्य ता इति । अथ यदि स्वात्मभूताभिः शक्तिभिरयमेकः शक्तीरुपकुर्वन् एकोपाधिग्रहणे च सर्वात्मनैव ग्रहणम् । तथा हि उपाधिग्रहणे तदुपकारिण्यः शक्तेर्ग्रहणम् । तद्ग्रहणे तदुपकारी स्वात्मभूतसकलशक्तत्युपकारो भावो गृहीतः सर्वा हयति । ताश्चोपाधीन् ग्राहयन्तीति तदवस्थः प्रसंग ः ।
अथ ता अपि शक्त्युपकारिण्यः शक्तयो भिन्ना एव भावाद् । तदा च उपाधीनांतच्छक्तीनां चापरापरास्वेव शक्तिषु अपर्यवसानेनोद्घटनात् । स एकः ताभिः
१३६
तद्वयाचष्टे (1) यदीत्यादि । उपाधिमुपाधिम्प्रति प्रत्युपाधि। उपकारकत्वानि शक्तयस्तस्योपाधिमतः न स्वात्मभूतानि । न स्वभावभूतानि । किन्तु व्यतिरिक्तानि । नापि तत उपाधिमतः उपकारमनुभवन्ति । आत्मसात्कुर्वन्ति । किन्तस्य ता उच्यन्ते । उपाधिमतः शक्तय इति कस्मादुच्यन्ते । सम्बन्धाभावात् । सम्बन्धसिद्ध्यर्थमुपाधि52a मतः सकाशात् तासामुपाध्युपकारिणीनां शक्तीनामुपकारेवाङ्गीक्रियमाणे याभिः शक्तिभिरुपाध्युपकारिणी: शक्तीरुपकरोत्ययमुपाधिमान् । यदि तास्तस्यात्मभूता इष्यन्ते तदा स्वात्मभूताभिः शक्तिभिरयमुपाधिमान् एक इत्यनंशः । उपाध्युपकारिणीः शक्तीरुपकुर्वन् ।
तथा हीत्यादिना सर्वात्मना ग्रहणं साधयति । एकोपाधिग्रहणे तड़पकारिण्यो उपाध्युपकारिण्यो व्यतिरिक्तायाः शक्तेर्ग्रहणं । तद्ग्रहण इति । 1 उपाध्युपकारिशक्तिग्रहे । तदुपकारी उपाध्युपकारिशक्त्युपकारी । किंभूतः स्वात्मभूतसकलशक्त्यपकारः स्वात्मभूताः सकला उपाध्युपकारिणीनं शक्तीनामुपकाराः शक्तयो यस्य स तथाभूतो भावो गृहीतः सर्वा उपाध्युपकारिकाः शक्ती ग्रहयति । ताश्चेमाः शक्तयो गृहीताः स्वोपकार्यानुपाधीन् ग्राहयन्तीति naavrः प्रसंग: को भेदः स्यादनिश्चित इति य उक्तः ॥
अथ माभूदेष दोष इति ता अपि शक्त्युपकारिण्यः शक्तयो भिन्ना एवोपाधिमतो भावादिष्यन्ते । तदा तदुपकारिण्योपि शक्तयो व्यतिरिक्ताः कल्पनीयास्तथा तदुपकारिण्य इत्येवमनवस्थानात् । उपाधीनां तच्छक्तीनां च । उपाध्युपकारशक्तीनां चापरापरास्वेव शक्तिष्वपर्यवसानेनानिष्ठया यद् घटनन्तस्योद्घटनात् सम्बन्धनात् । तथा ह्यपाधयो व्यतिरिक्तासु शक्तिषु सम्बद्धास्ता अपि व्यतिरिक्तास्वेव। एवमुत्तरोत्तरा शक्तिः पूर्वपूर्वासु शक्तिषु व्यतिरिक्तास्वेवानवस्थानेन सम्बद्धा । न तूपाधिमति । ततश्च स एक उपाधिमान् । ताभिरुपाध्युपकारि
1 Ses-par-byas-pas-mchon-pahi-phyir.