SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ४. सामान्यचिन्ता एवान्योपकारकः कश्चिद् गृहीतः । न चाऽपि तथा उपकारके गृहीते' उपकारकार्यस्याऽग्रहणम् । तस्याप्यग्रहणप्रसङ्गात्। स्वस्वामित्ववदिति। तस्मावर्थान्तरोपाधिवादेऽपि समानः प्रसंगः॥ अथाऽपि मन्यते। याभिः उपाधीनपकरोति ताः शक्तयो भिन्ना एव। ततो 437b नायं प्रसङ्गः। धर्मोपकारशक्तीनां भेदे ताम्तस्य किं यदि। .. नोपकारस्ततः तासां तथा स्यादनवस्थितिः ॥५६॥ स्यान्मतम् (1) उपाधिमतोनपेक्षितसम्बन्धिन उपकारक इत्येव ग्रहणं न त्वस्योपकारक इति ततो नोपाधीनां ग्रहणमित्यत आह। न चापीत्यादि। तथा गृहीत इत्युपकारक इत्येवं गृहीते उपकारकार्यस्योपाधेरग्रहणं । किं कारणं (1) तस्याप्युकारकस्य उपकारक इत्येवमग्रहणप्रसंगात् । एतत् कथयति (1) सम्बन्धित्वादुपकारकस्यान्तरेण द्वितीयसम्बन्धिग्रहणमुपकारक इत्यपि ग्रहणं नास्तीति । तथाभूतञ्च दृष्टान्तमाह। स्वस्वामित्ववदिति। न हि स्वग्रहणमन्तरेणास्ति स्वामित्वस्य ग्रहणं । यत एवमेकोपाधिद्वारेण प्रवृत्तेप्येकस्मिन् ज्ञाने शब्दे च सर्वोपाधीनां ग्रहणमुपाधिमतश्च सर्वात्मना। तस्मादर्थान्तरोपाधिवादेपि अर्थान्तरभूता उपाधय इत्येवंवादेपि समानः प्रसङ्गः। शब्दज्ञानान्तराणां पर्यायता प्राप्नोतीति। ___ अथापीत्यादिना परमाशङ्कते। याभिः शक्तिभिः शक्तिमानुपाधीनुपकरोति ताः शक्तयः शक्तिमतः सकाशाद् भिन्नाः। तत इति भेदात् । नायं प्रसंग इति । एकोपाध्युपकारकशक्त्यभेदग्रहे सर्वशक्तीनां ग्रहणं । तद्ग्रहणाच्च सर्वोपाधीनामित्ययं प्रसङ्गो नास्ति। उत्तरमाह। धर्मोपकारेत्यादि। धर्मा उपाधयस्तेषामपकारस्य याः शक्तयस्तासां शक्तिमतः सकाशाद् भेदेऽभ्युपगम्यमाने ताः शक्तयस्तस्य शक्तिमतः किम्भवन्ति। न किंचिद् भवन्ति न तत्सम्बन्धिन्य इत्यर्थः। यदा यदि नोपकारस्ततः। शक्तिमतस्तासां शक्तीनां। अथ सम्बन्धसियर्थमुपकार इष्यते। तदा शक्त्युपकारिण्यो परा व्यतिरिक्ताः शक्तयोङ्गीकर्तव्याः। याभिः शक्तीरुपकरोति (1) तासां च सम्बन्धत्वसिद्ध्यर्थ र: कल्पनीयः। तत्रापरा शक्तिकल्पनेति तथा स्यावनवस्थितिः। 1Gsu-gs? = gsun-ba.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy