________________
१३४
प्रमाणवात्तिकस्ववृत्तिटीका (११५५) पाण्युपकारकत्वेन ग्रहणात् । न हि तस्य स्वेन रूपेण गृह्यमाणस्य उपकारकत्वमन्यदेवागृहीतम्। अतोऽस्य यदेव स्वभावेन ग्रहणं तदेवोपकारकत्वेनाऽपि ॥
तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रहः ॥५५॥ आत्मभतस्य उपाधितद्वतोरुपकार्योपकारकभावस्य ग्रहणावेकज्ञाने तयोरपि उपाधिमतोम्रग्रहणमिति एकोपाधिविशिष्टेऽपि गृह्यमाणे सर्वोपाधीनां ग्रहणं तद्ग्रहणनान्तरीयकत्वात्। अन्यथा तथापि न गृह्येत। न ह्यन्य
तय
धिद्वारेणापि प्रहे सर्वात्मना ग्रहणन्तस्मिन्सति क एवोपाधिभेदस्तस्यानिश्चितः किन्तु सर्व एव निश्चितः स्यात्। किं कारणं (1) सर्वोपाध्युपकारकत्वेन ग्रहणात्। ___ एकोपाधिद्वारेणोपाधिमतः स्वरूपमेव ग्रहीतं न तूपाध्युपकारकत्वमिति चेदाह। न हीत्यादि। न [पाध्युपकारकत्वमन्यदेवागृहीतमित्यनेन सम्बन्धः । तस्येत्युपाधिमतः स्वेन रूपेण गृह्यमाणस्य स्वरूपादुपकारकत्वस्याभेवात्। यत एवमतः कारणादस्येत्युपाधिमतः । यदेव स्वभावेन स्वरूपेण ग्रहणन्तदेवोपकारकत्वेनापि ग्रहणमिति।
भवत्वेकोपाधिद्वारेणोपाधिमतः सर्वोपाध्युपकारकत्वस्य स्वभावभूतस्य ग्रहः। उपाधीनान्तु तस्माद् व्यतिरिक्तानां कथं ग्रहणमित्यत आह । तयोरित्यादि। उपाधिकलापस्योपाधिमतश्च उपकार्योपकारकभूतयोरात्मनि स्वभावेन्योन्यसम्बन्धो सम्बन्धादुपकार्योपकारकसम्बन्धस्यात्म भूतत्वादिति यावत्। ततश्चोपकारकस्वभावस्यैकस्य ज्ञाने सति सम्बन्धाद् व्यग्रहः। उपाध्युपाधिमतोर्ग्रहः।
स्तद्वयाचष्टे। आत्मभूतस्येत्यादि। तथा [पाधिमति गृहीते तस्यात्मभूत उपकारकभावस्तावद् गृहीतस्तस्मिन् गृहीते उपाधीनामप्युकार्यभाव आत्मSub भूतो गृहीतस्तद्ग्रहणनान्तरीयकत्वादुपकारकभावग्रहणस्य 7(1) अतः कारणा
देकज्ञाने द्वयोरप्युपाध्युपाधिमतोर्ग्रहणमिति कृत्वा एकोपाधिविशिष्टेपि तस्मिन्नुपाधिमति गृह्यमाणे सर्वोपाधीनां ग्रहणं। तद्ग्रहणनान्तरीयकत्वादित्युपाधिग्रहणनान्तरीयकत्वात्। अन्यथेत्युपाधीनामग्रहे तथापि न गृह्येत। उपाधीनामुपकारक उपाधिमानित्येवमपि न गृह्येत । ___ य एव तदानीं ज्ञानशब्दप्रवृत्तिनिमित्त मुपाधिस्तं प्रत्येवोपकारकत्वमुपाधिमतो गृहीतं न तूपाध्यन्तरोपकारकत्वमिति चेदाह। न ह्यन्य एवेत्यादि। अन्योपकारक इत्यन्यस्योपाधेरुपकारकः स्वभावो यो न गृहीतः किन्तु सर्व एव गृहीतो निरंशत्वाद वस्तुनः।