________________
४. सामान्यचिन्ता
१३३
यद्यपि भिन्ना एवोपाधयः
शब्दज्ञानान्तराणामर्थनिमित्तम् । तथाऽपि स तु तद्वान् एव तैरुपलीयते । तस्य नानोपाध्युपकाराश्रयशक्तिस्वभावस्य स्वात्मनि भेदाभावात् सर्वात्मना ग्रहे क एवोपाधिभेवोऽनिश्चितः स्यात् सर्वो
धूमादिकारणत्वेनैव निश्चयात् । धूमादीनामपि निश्चितत्वात् । तस्मान्न निश्चयेन तत्स्वरूपग्रहणं । निर्विकल्पकेनापि तर्हि सर्वात्मना ग्रहो न स्याद् धूमाप्रतिभासादेव तत्कार्यत्वाग्रहात् ।
नैतदस्ति (1) अग्नेहि धूमजननंप्रति कारणत्वं पूर्वभाव एवोच्यते । स च प्रत्यक्ष प्रतिभासत इति कथं नाग्नेस्तत्कार्यत्वग्रहः । तेनायमर्थः ( 1 ) नाग्निधूमयोः परमार्थतः परस्परापेक्षिता विद्यते । निष्पन्ना निष्पन्नावस्थायां सम्बन्धाभावात् (1) केवलमग्नौ सत्येव धूमो भवतीति तौ कार्यकारणे उच्येते । धर्मधर्मिगोस्तु परस्परापेक्षित्वाद्धर्मिणः सर्वात्मना निश्चये सर्वधर्माणां साक्षान्निश्चयः स्यान्नार्थादाक्षेपः । यदा तु बाह्याध्यवसायको विकल्पो भवति न तु ग्राहकस्तदाध्यवसितस्यार्थस्यान्यव्यावृत्तिसम्भवेनार्थादन्यधर्माक्षेपो युज्यते (1) परस्परापेक्षत्वे च' यावन्न धर्मनिश्चयो न तावद्धर्मनिश्चयो ( 1 ) यावच्च न धर्मिनिश्चयस्तावन्न 512 धर्मनिश्चय इत्यन्योन्याश्रयत्वञ्च स्यात् ।
ननु चोपाध्युपाधिमद्भाव आश्रयाश्रयिभाव एवोच्यते । स च समानकालभाविनोरेव ( 1 ) न च तयोरुपकार्योपकारकभावो भिन्नकालत्वादस्य ( 1 ) तत्कथमुच्यते । एकोपाधिविशिष्टग्रहे सर्वग्रह इति ।
सत्यं (1) किन्तु परैरन्य एव जन्यजनकभावोन्यश्चोपका-र्योपकारकभाव इष्यते । तथा हि ( 1 ) वदरद्रव्यं स्वहेतुजन्यमपि कुण्डेनोपक्रियतेऽत एवं समानकालभाविनोरयमुपकार्योपकारकभाव इष्यत इति तदभिप्रायादिदमुक्तं । यद्वा धर्मो निश्चीयमानः धर्म्याश्रितत्वादेवाश्रयस्य प्रतीतिमाक्षिपति स चाश्रितानां धर्माणामिति सर्वनिश्चयः । तस्माच्छब्दप्रमाणान्तरवृत्तेः कल्पित एव धर्मधर्मिभाव:" (।) न चास्मिन् पक्षे धर्मभेदाभेदकल्पनायां प्रमाणान्तरवैयर्थ्य मवस्तुत्वेन तेषां भेदाभेदस्य परमार्थतोऽभावात् । प्रमाणान्तरैरेव च धर्मान्तराणां कल्पनीयत्वात् तदभावे कथं धर्मभेदाभेदकल्पनेति यत्किञ्चिदेतत् ॥
यद्यपीत्यादिना कारिकार्थं व्याचष्टे । शब्दान्तराणां ज्ञानान्तराणामर्थ उपामिति प्रतिपत्तौ प्रतिनिमित्तं भिन्ना एवोपाधयो यद्यप्यभ्युपगम्यन्ते ( 1 ) स तु तद्वानुपाधिमानर्थः शब्दज्ञानैरुपलीयते विषयीक्रियते । तस्य तद्वतो नानोपाधीनामुपकाराश्रया याः शक्तयस्तत्स्वभावस्य स्वात्मनि स्वरूपे भेदो नास्ति । ततश्चैकोपा