SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ - १३२ प्रमाणवात्तिकस्ववृत्तिटीका (१।५४) यस्यापि नानोपाधेझैाहिकार्थस्य भेदिनः । नानोपाध्युपकारागशक्तचभिन्नात्मनो ग्रहे ॥५४॥ सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः । 437a योऽपि मन्यते।' उपाधयः परस्परं आश्रयाच्च भिन्ना एव तन्निबन्धनाः श्रुतयोऽपि तदाधारे तत्रैव वर्तन्ते । तद् अयमप्रसङ्गः इति । तस्याऽपि नानोपाधीनामुप काराङ्गशक्तिभ्योऽभिन्नात्मनः सर्वात्मना ग्रहे कृते उपकार्यस्य को भेवः स्यावनिश्चितः॥ वा न विषयः।। इति हेतोः शब्दानां प्रतीते विषये पश्चात प्रवर्त्तमानानां पर्यायता स्यात् । वृक्षपादपादिशब्दवत् । । मधुरो रसः स्निग्धो गुरुः शीत इत्येवमादिभिन्नविषयानुपातिन्याश्च बुद्धेः प्रवृत्तिर्न स्यादित्येकविषयत्वप्रसंगः ।। भिन्नं धर्मर्मिभावं पारमार्थिकन्दूषयितुमुपन्यस्यन्नाह। यस्यापीत्यादि। यस्यापि वै शे षि क स्य परस्परमाश्रयाच्च भिन्नत्वान्नाना उपाधयो विशेषणानि द्रव्यत्वादयो यस्यार्थस्य घटाः स नानोपाधिस्तस्य तत एवोपाधिभेदाद् भेदिनोर्थस्य विधिनैव बुद्धिमाहिका निश्चयात्मिका धीः सा च प्रत्युपाधि भिन्ना ॥ धियश्च विषयभेदन्दर्शयता शब्दानामप्यर्थतो दर्शित एव। तद्वयाचष्टे योपीत्यादिना (1) उपाधयो द्रव्यत्वादयः परस्परमन्योन्यम्भिन्ना आश्रयाच्चेत्युपाधिमतो भिन्नाः । तन्निबन्धना भिन्नोपाधिनिबन्धनाः श्रुतिग्रहणमुपलक्षणमेवं बुद्धयोपि। तदाधारे स्थित्युपाधीनामाधारेषु। तत्रैव चेत्युपाधिष्वेव। वर्तन्ते वाचकतया प्रवर्तन्ते। तदिति तस्माद् । अयमिति शब्दज्ञानान्तराणां पर्यायतालक्षणोऽप्रसंगः। ___ उत्तरमाह। तस्यापीत्यादि। नानाप्रकाराणामुपाधीनामुपकारस्याङ्गं कारणं याः शक्तयः। ताभ्योऽभिन्नात्मन उपाधिमत एकेन निश्चयज्ञानेन ग्रहे निश्चये सर्वात्मना कृते सति। उपकार्यस्योपाधिकलापस्य को भेदः क उपाधिविशेषः स्यादनिश्चित: (1) सर्व एव निश्चितः स्यात्। नन्वग्निधूमयोः सत्यपि सम्बन्धे नाग्निनिश्चये धूमस्य निश्चयो दृश्यते तथा मिनिश्चये धर्मानिश्चयो भविष्यति। नन्विदमेवादर्शनन्न स्यात्। निश्चयप्रत्ययेन सर्वात्मनाऽग्निस्वरूपग्रहे सति 1Siams-sems-pa. .
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy