________________
१३१
४. सामान्यचिन्ता निश्चये च अयोगात्॥
(यावन्तोऽशसमारोपास्तनिरासे विनिश्चयाः। तावन्त एव शब्दाश्च तेन ते भिन्नगोचराः)॥५२॥ (अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि । बुद्धथा वा नान्यविषय इति पर्यायता भवेत्) ॥५३॥
' इत्यन्तरश्लोकः।
यदि तु प्रत्यक्षपृष्ठभाविना निष्चयेन वस्तुस्वभावस्य निश्चयः क्रियते तदा तत्स्वभावनिश्चये च निरंशत्वाद् वस्तुनस्तस्यायोगादन्यस्याकारान्तरस्यानिश्चयायोगात् ॥
यतश्च वस्त्वध्यवसायेनैव निश्चयस्य प्रवृत्तिः शब्दस्य वा न वस्तुस्वरूपग्राहकत्वेन। तस्माद् यावन्त एकस्यांशसमारोपा रूपान्तरसमारोपाः प्रवृत्ता अप्रवृत्ताश्च तन्निरासे समारोपनिरासार्थन्तावन्त एव निश्चयाः शब्दाश्च तावन्त एव स्वविषये प्रवर्त्तन्ते। तेन कारणेन ते निश्चयाः शब्दाश्च भिन्नगोचरा भिन्नविषयाः । स्वस्वहेतुतोध्यवसितस्वस्वाकाराभिन्नबाह्यविषयत्वात्तेनैतद् (।)
"बुद्धयारोपितबुद्धिस्थो नार्थबुद्ध्यन्तरानुगः । .. नाभिप्रेतार्थकारी च सोपि वाच्यो न तत्त्वतः। प्रतिभापि च शब्दार्थो बाह्यार्थविषया यदि। एकात्मनियते बाह्ये विचित्राः प्रतिभाः कथं । अथ निविषया एता वासनामात्रभावतः । प्रतिपत्तिः प्रवृत्तिश्च बाह्यार्थेषु कथम्भवेत् । स्वाँशे बाह्याधिमोक्षेण प्रवृत्तिश्चेत्सदा मता।
शब्दार्थोऽतात्त्विकः प्राप्तस्तथा भ्रान्त्या प्रवर्तनादिति" (1) job निरस्तं। कल्पितविषयत्वेनेष्टत्वाद् विकल्पस्य ॥
अन्यथेति बुद्धिशब्दाभ्याम्वस्तुस्वरूपग्रहणे। एकेन शब्देन व्याप्ते सर्वाकारेण विषयीकृते। एकत्रकस्मिन् बुद्ध्या वा निश्चयात्मिकया व्याप्तेनान्यविषयः। अन्यश्चासावाकारो विषयश्चेत्यन्यविषयः। तस्य वस्तुनो नापर आकारो विषयभूतो विद्यते प्रत्याय्यः। अथवा तद्वस्तुप्रत्यायकस्यान्यस्य शब्दस्य ज्ञानस्य
1 Slokavārtika.