________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।५१) निश्चयारोपमनसोर्बाध्यबाधकभावतः । न हि सर्वतो भिन्नो दृष्टोऽपि भावस्तथैवेति प्रत्यभिज्ञायते। क्वचित् भेदे व्यवधानसम्भवात्। यथा शुक्तेः शुक्लत्वम्। यत्र भ्रान्तिनिमित्तं तत्रैवास्य प्रतिपत्तः स्मार्तो निश्चयो भवति तद्दर्शनाविशेषेऽपि। भ्रान्तिनिश्चययोर्बा (भ्यबा)धकभावात्।
समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते ॥५१॥ तद्विवेक एवान्यापोहः। तस्मात् तदपि तन्मात्रापोहगाचरं न वस्तुस्वभावनिश्चायक स्वरूपेण। तथा हि निश्चयेऽपि अप्रतिपत्तिदर्शनात् । तस्य स्वभाव
50a किं कारणं (1) निश्चयारोपमनसोर्बाध्यबाधकभावः। निश्चयज्ञा'नस्य
तद्विपरीतसमारोपज्ञानस्य च बाध्यबाधकभावतः। बाध्यबाधकभावमेव साधयन्नाह । न हीति सर्वतः सजातीयाद्विजातीयाच्च भिन्नो दृष्टोपि भावस्तथैवेति यथादृष्टेन सर्वेणाकारेण प्रत्यभिज्ञायते। निश्चीयते न हीति सम्बन्धः। किं कारणं (1) क्वचिद् भेदे क्षणिकत्वादिके व्यवधानसम्भवात् । भ्रान्तिनिमित्तगतः यथा शुक्तेः सर्वतो व्यावृत्ताया दर्शनेपि शुक्तिकादित्वे रजतसाधर्म्यस्य भ्रान्तिनिमित्तस्य सम्भवान्न निश्चयः । यत्र त्वाकारे भ्रान्तिनिमित्तं नास्ति तत्रैवास्य प्रतिपत्तुरनुभवो त्तरकालभावी स्मा? निश्चयो भवति। तद्दर्शनाविशेषेपि सर्वस्वाकारेष प्रत्यक्षस्याविशेषेपि स्मार्त इति स्मृतिरूपः।
ननु तदित्युल्लेखेनानुत्पत्तेः कथं स्मृतिरूपः (1)
सत्यं (1) निर्विकल्पकविषयस्य स्वाकारेणैकीकृत्य विषयीकरणात् स्मृति- . रूप उच्यते। यतश्च प्रत्यक्षाविशेषेपि समारोपरहित एव विषये निश्चयो भवति - तस्मात् समारोपनिश्चययोर्बाध्यबाधकभावो गम्यते। ततो बाध्यबाधकभावात् कारणात् समारोपविवेके समारोपविरहनिश्चयस्यास्य प्रवृत्तिरिति गम्यते।
भवतु नाम समारोपविवेके प्रवृत्तिस्तथापि नान्या पोहविषयत्वम्विधिरूपेण प्रवृत्तेरित्याह। तद्विवेक एवान्यापोहः समारोपविवेक एव चान्यापोहः। तस्मात् समारोपरहिते वृत्तिवशात् तदपीति न केवलमनित्यः शब्द इति निश्चयज्ञानं पूर्वोक्तेन न्यायेन तन्मात्रापोहगोचरन्तवपि प्रत्यक्षपृष्ठभाविनिश्चियज्ञानमपि तन्मात्रापोहगोचरं न वस्तुस्वभावनिश्चायकं स्वरूपेण (1) किङ्कारणं (1) तथा हि कस्यचिदाकारस्य रूपत्वादेनिश्चयेप्यन्यस्य क्षणिकत्वाद्याकारस्याप्रतिपत्तिदर्शनात्।