________________
४. सामान्यचिन्ता
१२९ यद् अलिङ्गरूपादिकमेतत् दृष्टिप्रवृत्तौ निश्चयज्ञानं जायते। तत् कथं व्यवच्छेदविषयं भवतीति चेत् । समारोपविषयेऽभावात्। यत्रास्य समारोपो न तत्र भेदे स्थिरः सात्मक इति वा निश्चयो भवति॥
तदिष्टमेवास्माकं । शब्दलिंगप्रतिपादितस्य चार्थस्यान्यनिषेधे व्यापारो न शब्दलिङ्गयोः।
तेन यदुच्यते कु मा 3 रि ले न (1) निषेधस्य निरूपत्वाद् भेदाभावाच्च न लिङ्गलिङ्गिभावः नापि शब्दवाच्यत्वं ।
"न गम्यगमकत्वं स्यादवस्तुत्वादपोहयोः। भवत्पक्षे यथा लोके खपुष्पशशशृङ्गयोः । निषेधमात्ररूपं च शब्दार्थो यदि कल्प्यते। अभावशब्दवाच्या स्याच्छून्यतान्यप्रकारिका। (३६) भिन्नसामान्यवचना विशेषवचनाश्रये।
सर्वे भवेयुः पर्याया यद्यपोह-स्य वाच्यता ॥ (४२)"२ तथा यदि चापोह्यभेदेनापोहस्य भेदस्तदौपचारिकः स्यात्। यस्य चापोहस्य नीरूपत्वे धर्मिभेदेन न भेदः। कथन्तस्य बहिर्भूतैरपोहेर्भेदः क्रियते। तदाह ।।
"ननु चापोहभेदेन भेदोपोहस्य सेत्स्यति। न विशेषः स्वतस्तस्य परतश्चौपचारिकः॥ (४७) संसर्गिणोपि चाधारा यन्न भिन्दन्ति भावतः। अपोह्यः स वहि:संस्थैभिद्यतेत्यतिकल्पनेति" (॥५२॥
निरस्तं। व्यवच्छेदमात्रस्य शब्दाद्यविषयत्वात् । यदित्यादिना श्लोकं व्याचष्टे। आदिशब्दाच्छब्दादिपरिग्रहः। नास्य लिंगमस्तीत्यिलिङ्गरूपादिकमेतदिति निश्चयज्ञानं। असति समारोपे भवति। नहि प्रत्यक्षवृष्टे रूपादौ तदानीम्बिपरीताकारसमारोपोस्ति। तत्कथं व्यवच्छेदविषयम्भवति।
इयता श्लोकस्य पूर्वार्दो व्याख्यातः। उत्तरार्द्धं व्याख्यातुमाह। समारोपविषये तस्य निश्चयज्ञानस्याभावात् । तद्वयवच्छेदविषयम्भवतीति प्रकृतेन सम्बन्धः। एतदेवाह। यत्र भेदेस्य पुंसः समारोपो न तत्र भेदे समारोपविषये निश्चयो भवत्यस्थिरो निरात्मक इति वा ।।
2 Slokavartika. Apohavada
1 Mthon-bahi-mjug-thogs-su.
१७