________________
१२८
प्रमाणवार्तिकस्ववृत्तिटीका (१।५०) (कचित् दृष्टेपि यज्ज्ञानं सामान्यार्थविकल्पकम् । असमारोपितान्यांशे तन्मात्रापोहगोचरम्) ॥५०॥
436b
अत आह। क्वचिदित्यादि। कस्मिँश्चिद्रूपादौ दृष्टेपि प्रत्यक्षेण। तत्पृष्ठभावि यज्ज्ञानं सामान्यायं सामान्यविषयमत एव विकल्पकं। असमारोपितः
अन्याशः प्रतियोग्याकारो यस्मिन् विषये स तथा तत्र प्रवर्त्तमानन्तदपि तन्मात्रा. पोहगोचरं। तेनायमर्थो भवति (1) समारोपरहितं स्वलक्षणं स्वाकारभेदेन
गृह्णन् विकल्पकं ज्ञानम्भ्रान्तत्वात् तत्समारोपरहितबाह्याध्यवासायकमेव न तु बाह्यस्वरूपग्राहकम् (1) अतस्तन्मात्रमेव नियतबाह्यावसाय एवान्यस्य समारोपस्यापोहगोचरम्विकल्पकं ज्ञानं ।
यद्वा असमारोपितश्चासावन्यांशश्च तस्मिन् सति विकल्पकं ज्ञानं प्रवर्त्तमान49b न्तन्मात्रापोहगोचरं। योसावसमारोपितोन्याङशस्तन्मात्रव्यवच्छेदविषयम्भवति।
एतदुक्तम्भवति। यत्रापि समारोपः प्रवृत्तो न तत्रापि समारोपनिषेधः शब्द- लिङ्गाभ्यां प्रतिपाद्यते सम्बन्धाभावादत एवायं न क्रियतेऽहेतुत्वाच्च नाशस्य। केवलं पूर्वकस्य समारोपस्य स्वरसविरोधात्। शब्दलिङ्गाभ्यामनित्यादिनिश्चये सत्यन्यस्य समारोपस्यानुत्पादे सति समारोपनिषेधः कृतो भवति। तथा प्रत्यक्षदृष्टेप्यन्यविकल्पस्य समारोपव्यवच्छेदः केन वार्यते। तेन न पूर्वान्यादृश एव समारोपव्यवच्छेद उक्तोऽधुनान्यादृश एवोच्यत इति भिन्नवाक्यता। . तेनेदं च निरस्तं (1)
"प्रागगौरिति विज्ञानं गोशब्दश्राविणो भवेद् (।)
येनागोव्यवच्छेदाय प्रवृत्तो गौरिति ध्वनिरि" ति। यदा शब्दलिंगयोः स्वविषये निश्चयजननेनान्यनिषेधे व्यापारः कल्प्यते। तदा विधिरूपेणैव प्रवृत्तिरिति सिद्धं । तेन (1) - "यदि गौरित्ययं शब्दः समर्थोन्यनिवर्त्तने ।
जनको गवि गोबुद्धेम॒ग्यतामपरो ध्वनिरि"ति (॥) निरस्तं। तथा यदप्युच्यते।।
"यद्यप्पोह विनिर्मुक्ते न वृत्तिः शब्दलिंगयोः । युक्ता तथापि बोधस्तु ज्ञातुर्वस्त्ववलम्बत" 'इति (1)
1 Slokavārtika, Apohavāda 92.