________________
४. सामान्यचिन्ता
१२७ रूपेण निश्चिन्वन् कथमविपर्यस्तो नाम । तदाकारसमारोपसंशयरहितश्च तत्प्रतिपत्तौ न लिङ्गमनुसरेत् । न तस्यान्वयव्यतिरेकयोराद्रियेत् ॥
तस्मादपोहविषय(मिति) लिङ्ग प्रकीर्तितम् । अन्यथा धर्मिणः सिद्धा(वसिद्धं किमतः) परम् ॥४९॥
, इति संग्रहश्लोकः।
संशयेन च रहितश्च पुरुषस्तत्प्रतिपत्तौ अग्निप्रतिपत्तौ न लिङ्गमनुसरेत् । न पक्षधर्म 49a समाश्रयेत्। तथा न तस्य लिङ्गस्यान्वयव्यतिरेकयोराद्रियेत। । यावतानुसरेदाद्रियते च । तस्मात्तदाकारसमारोपसंशयवान् प्रतिपत्ता लिङ्गबलेन समारोपमपनयति क्वचित्संशयमतः सर्वत्र स्वव्यापकप्रतिपत्तिद्वारेण समारोपव्यवच्छेदः क्रियते।
तस्मादपोहविषयमन्यव्यवच्छेदविषयं। इत्युक्तेन प्रकारेण न तु साक्षात् । अन्यथेति यदि समारोपमन्तरेणानुमानस्य प्रतिपत्तिरिष्यते। तदा केनचित् प्रमाणेन धर्मिणः सिद्धौ किमसिद्धन्तस्य धर्मिणो रूपमतः सिद्धात् स्वभावात् परमन्यदस्ति । यस्य प्रत्यायनाय लिङ्ग प्रवर्तेत ।।
ननु संशयविपर्ययोत्पादे सति भागः स्यात्। यदाह (1) न चेमाः कल्पना अप्रतिसम्विदिता एवोदयन्ते व्ययन्ते चेति। नापि तत्प्रतिपत्तौ लिङ्गानुसरणेन तदाकारसमारोपसंशयः शक्यते कल्पयितुन्निश्चयानुत्पत्तिपक्षेपि (1) साध्यनिश्चयार्थं लिङ्गानुसरणस्य सम्भवात् ।
"अन्यथा धर्मिणः सिद्धावसिद्ध किमतः परम्” (1) इत्यनेनापि धर्मिविषयस्य ज्ञानस्य कल्पितविषयत्वं स्यात् । न तु धर्मिणि समारोपः सिध्यतीति कथन्तदनुमानस्यार्थात् समारोपव्यवच्छेद इति ।
सत्त्यं (1) किन्त्वयमभिप्रायः (1) न यावत् पक्षधर्मत्वनिश्चयो न तावदनुमानस्योत्थानमस्ति हेतोरसिद्धत्वात्। अग्निमति च प्रदेशे प्रदेशमात्रसम्बन्धितया यो धूमस्य निश्चयोऽयमेव विपर्यासोऽन्यथावधारणात्। न ह्यत्राग्निस्तिीत्येवं रूप एव विपर्यासः साग्नेः प्रदेशादयमन्य इत्येवं रूपस्यापि"षि ( ? ) प्रत्ययस्य विपर्यासात्तेनात्राप्यनुमाने साग्निरयं प्रदेशो न प्रदेशमात्रमिति समारोपनिषेधोस्त्येव।
भवतु तावत् समारोपे तद्वयवच्छेदाय स्वविषये प्रवर्त्तमानं लिङ्गमन्यापोहकृत् । यत्पुनरिदं प्रत्यक्षपृष्ठभावि विकल्पविज्ञानन्तदसति समारोपे भवत् कथमन्यापोहकृत। अवश्यं च तदन्यापोहविषयमेष्टव्यं सामान्यविषयत्वादन्यापो हलक्षणत्वाच्च मामान्यस्य भवतान्दर्शनेनेति (1)