SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १२६ प्रमाणवात्तिकस्ववृत्तिटीका (१।४८) ऽकस्मादग्निप्रतिपत्तिः। न हि तत्रानग्निसमारोपः सम्भाव्यते। तत् न सर्वत्र व्यवच्छेदः क्रियत इति चेत्। अत्र धर्मिप्रतिपत्तौ अभेदात् सर्वप्रतिपत्तेः। ततो भेदेऽसम्बद्धस्याप्रतिपत्तिरित्युक्तम्। तस्मात् तत्राऽपि तद्दर्शिनः तत्स्वभावानिश्चयो हि. कुत इति। विपर्यासादेव। स च तद्विविक्तेन तं प्रदेशं अग्निसत्ताभावनाविमुक्तया बुद्धया तद्विविक्तेन त्यादि। अकस्मादित्यतक्कितोपस्थितात् । सहसैव क्वचित्प्रदेशे धूमादग्निप्रतिपत्तिः। न हि तत्रेत्यकस्मादग्निप्रतिपत्तावनग्निसमारोपः सम्भाव्यते। तदिति तस्मान्न सर्वत्र व्यवच्छेदः क्रियतेऽर्थादित्यनुमानेन। उक्तमित्या चा र्यः। अत्र हि वस्तुस्वरूपग्राहकत्वेनानुमानस्य प्रवृत्तावुक्तमुत्तरं। प्रत्यक्षेण धर्मिप्रतिपत्तौ तद्धर्माणां धर्मिणः सकाशादभेदात् सर्वप्रपितत्तरनुमानवैफल्यमिति। धर्मिणः सकाशाद् धर्मस्य भेदे वाभ्युपगम्यमाने धर्मिणा सह न तादात्म्यलक्षणः सम्बन्धो भेदाभ्युपगमात् । न चानित्यत्वादीनां धर्मिस्वरूपादुत्पत्तिर्न चानित्यत्वादिभ्यो धर्मिण उत्पत्तिः। ततश्चासम्बद्धस्य धर्मस्य तत्र मिण्यप्रतिपत्तिरित्येतदप्युक्तं । अहेतुफलभूतस्य तत्रानुमानासम्भवादित्यत्रान्तरे। यत एवन्तस्मात् तत्राप्यकस्माद् धूमदर्शनादग्निप्रतिपत्तौ। तद्दर्शिनः प्रदेशदर्शिनः पंसस्तत्स्वभावानिश्चयोग्निमत्त्वस्वभावानिश्चयोस्त्येव। स चानियतः कृतो विपर्यासादेवानग्निमता, प्रदेशेन तुल्यत्वग्रहणादेव । एतदेवाह (1) स चेत्यादि। यद्वा तत्स्वभावानिश्चयः कुतः (1) किन्तु निश्चय एव स्यादविपर्यासात् । भवति चानिश्चयः (1) तस्मान्न धर्मिप्रतिपत्तिर्वस्तुस्वरूपग्राहिणीत्यपोहविषया। किञ्च। स चेत्यादि। स चेति पुरुषस्तद्विविक्तेनेति वह्निविवेकेन तं प्रदेशमग्निमन्तमपि तद्विविक्तेन रूपेण निश्चिन्वन् बुद्धया। किम्भूतया। अग्निसत्ताभावनाविमुक्तया। अग्निसत्तासम्भावनारहितया (1) कथमविपर्यस्तो नामविपर्यस्त एवातस्मिँस्तद्ग्रहात् (1) तथा हि (।) यावत्तत्र प्रदेशे धूमन्न पश्यति तावदन्येनाग्निरहितेन प्रदेशेन सदशन्तमप्यध्यवस्यति। यदि नाम क्वचिदन भव.. योगे सति यदीह निश्चयस्तथापि तत्र संशयन भाव्यं संशयश्चोभयांशावलम्बी। स च पक्षे तद्विपरीतं संस्पृशत्येवातः संशयव्युदासेप्यन्यन्यवच्छेदः कुतो भवत्येव लिङ्गेन। अवश्यं च लिङ्गादेवानुमेयं प्रतिपद्यमानस्तत्रानुमेये विपर्याससंशयाभ्यां युक्तो भवति। यस्मात् तदाकारसमारोपसंशयरहितश्च। अनग्न्याकारसमारोपेण
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy