SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ४. सामान्यचिन्ता १२५ न केवलं प्रत्यक्षष्टे प्रमाणान्तरावृत्तिः । यवानुमानमपि वस्तु विधिना प्रत्यायक इष्यते न व्यवच्छेदकृत् । तदा एकधर्मनिश्चये तदव्यतिरेकात् सर्वधर्मनिश्चय इति प्रमाणन्तरावृत्तिः । न हि तस्मिन् निश्चिते निश्चितो तदात्मेति युक्तः 1 यदा पुनरनुमानेन समारोपव्यवच्छदः क्रियते । तदैकेन समारोपस्य व्यवच्छेदात् अन्यस्य व्यवच्छेदः कृतो न भवतीति तदर्थमन्यत् प्रवर्त्तते । ननु विपर्यासपूर्वक एवाप्रतीतस्य निश्चयो भवतीति नायं नियमः । यथा अपोहो बाह्यतया आरोपित आकारो* पोह्यतेऽनेनेति कृत्वा । तस्मिन्ननुमानेन प्रतिपाद्येङ्गीक्रियमाणे यद्वापोह्यतेस्मिन्नित्यपोहः स्वलक्षणं ( 1 ) तस्मिन् स्वाकाराभिन्नतयाऽनुमानग्राह्येऽभ्युपगम्यमाने नायमनन्तरोक्तो दोषः प्रसज्यते । न केवलमित्यादि विवरणं । क्वचित् प्रत्यक्षदृष्टे धर्मिणीति सम्बन्धः । कस्मिँश्चित् प्रत्यक्षदृष्टे धर्मिणीत्यर्थः । न सर्वो धर्मी प्रत्यक्षो भवतीति क्वचिद् ग्रहणं । अनन्तरोक्तेन न्यायेन प्रमाणान्तरावृत्तिः । तदानुमानमपि वस्तु शब्दादिकं विधिना प्रत्यायतीष्यते वस्त्वध्यवसायेनार्थन्न समारोपव्यवच्छेदकृत् । तदेति विधिरूपेण वस्तुस्वरूपग्रहणे । एकधर्मनिश्चये सति तदव्यतिरेकान्निश्चितधर्माव्यतिरेकात् सर्वधर्मनिश्चय इति प्रमाणान्तरावृत्तिरनुमानान्तराप्रवृत्तिः । सत्यप्यव्यतिरेके। न सर्वधर्मनिश्चय इति चेदाह । न हीत्यादि । तस्मिन्निति प्रथमानुमाननिश्चिते धर्मे । तदात्मेति । निश्चितधर्मात्मा सन्ननिश्चितो न हि युक्तः । ' अपोहे नायन्दोष: प्रसज्यत इत्येतद्विवृण्वन्नाह । यदा पुनरित्यादि । यदा पुनरनुमानेन वस्त्वध्यवसायं कुर्वताऽर्थात् समारोपव्यवच्छेदः क्रियते न तु साक्षाज्ज्ञापकत्वादस्य । तेनैतन्निरस्तं समारोपव्यवच्छेद ? एव व्यवहारादन्यार्थ - 48b प्रवृत्तिर्न स्यादनुमानेनानिश्चितत्वादिति । सबैकेन कृतकानुमानेनैकस्याकृतकसमारोपस्य व्यवच्छेदादन्यस्य नित्यसमारोपस्य व्यवच्छेदः कृतो न भवतीति कृत्वा । तदर्थमन्यसमारोपव्यवच्छेदार्थमन्यदित्यनित्यत्वाद्यनुमानं प्रवर्त्तते । तस्मान्न विकल्पानां स्वरूपेण बाह्य ग्राह्योऽपि तु स्वाकारेण सहैकीकृत एव बाह्यो विषयः (1) स चास त्योsपोह्यतेऽन्यदनेनेति अपोह उच्यते ॥ स्थिते चैवम्परोनवगताभिप्रायः प्राह । नन्वित्यादि । पूर्वन्तद्विपरीताकारसमारोपी विपर्यासः प्रवर्त्तते । ततस्तद्विपर्यासपूर्वकोप्रतीतस्यार्थस्य लिङ्गान्नियो भवतीति नायन्नियमो विपर्यासरहितेप्यनुमानसम्भवात् । तदाह । यथे
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy