________________
१२४
प्रमाणवात्तिकस्ववृत्तिटीका (१।४८) न्वन् तत्सामान्यं पश्यामीति मन्यते।' ततोऽस्य रजतसमारोपः सदृशापरोत्पत्त्या अलक्षितनानात्वस्य तद्भावसमारोपात स्थितिभ्रान्तिः। यावन्तोऽस्य परभावाः तावन्त एव यथा स्वनिमित्तभाविनः समारोंपा इति तद्व्यवच्छेदकानि भवन्ति प्रमाणानि सफलानि स्युः। तेषान्तु व्यवच्छेदफलानां नाप्रतीतस्य वस्त्वंशस्य प्रत्यायने प्रवृत्तिः। अनंशस्य एकदेशेन दर्शनायोगात्। तस्य दृष्टत्वात् ॥
तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । (भ्रान्तेनिश्चीयते नेति) साधनं संप्रवर्तते ॥४७॥
इति संग्रहश्लोकः। 436a तस्मान्न दृष्टग्रहणार्था दृष्टे प्रमाणान्तरस्य प्रवृत्तिः॥
वस्तुग्रहेनुमानाच्च धर्मस्यैकस्य निश्चये । सर्व(धर्म)ग्रहोऽपोहे नायं दोषः प्रसज्यते ॥४८॥
पात् स्थितिभ्रान्तिः। तस्माद् यावन्तोस्य शब्दादेः क्षणिकानात्मादिस्वभावस्य परभावा नित्यादयस्तावन्त एव यथास्वनिमित्तभाविनः यस्य यदनुरूपं निमित्तन्तद्भाविनः समारोपा' इति.। तद्यवच्छेदकानि तस्य समारोपस्यार्थाद् व्यवच्छेदकानि भवन्तीत्युत्पद्यमानानि प्रमाणान्यनुमानसंज्ञितानि। व्यक्तिभेदाद् बहुवचनं । सफलानि स्युः सार्थकानि स्युः। तेषान्तु व्यवच्छेदफलानां समारोपप्रतिषेधफलानां प्रमाणानां। नाप्रतीतस्य वस्त्वङशस्य वस्तुभागस्य प्रत्यायने प्रकाशने प्रवृत्तिः। तस्य वस्त्वंशस्य निरंशे मिणि दृश्यमाने दृष्टत्वात् । किं कारणम् (1) अनंशस्येकदेशेन दर्शनायोगात् ॥
यत एवन्तस्मात् प्रत्यक्षेण दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः . समस्तः स्वभावस्तथापि भ्रान्तः सद्भावान्निश्चीयते नेति कृत्वा तन्निश्चयार्थ साधनमनुमानं विधिरूपेणैव प्रवर्तत इति स्पष्टमेवोक्तं ।
तस्मान्नादृष्टग्रहणार्या दृष्ट प्रत्यक्षेण प्रमाणान्तरस्य (1) किन्तहि दृष्टनिश्चया चैव प्रवृत्तिरित्यनेनापि विध्यर्थः। स्पष्ट एवोक्तोन्यनिषेधस्त्वर्थात् ॥
वस्तुग्रह इत्यादि। चकारः प्रत्यक्षापेक्षया समुच्चयार्थः। अनुमानेन च वस्तुग्रहेङ्गीक्रियमाणे। शब्दादिधर्मिणो धर्मस्यैकस्य कृतकत्वादिलक्षणस्य निश्चयेन निरंशत्वाद् धर्मिणः सर्वधर्मनिश्चयस्तदा नित्यत्वाद्यनुमानान्तरवैफल्यमित्याकूतं।
. 1 Sñam-du-rlog-par-byed-do.