SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ४. सामान्यचिन्ता १२३ यदि दृष्टसर्वतत्त्वस्वरूप शुक्तावपि शुक्तौ रजताकार इव निश्चयप्रतिरोधिना' भ्रान्तिनिमित्तेन गुण (न्तरं) न संयोज्यत। न हि शुक्तौ समानं विशिष्टं . च द्वे रूपे सम्भवतः। तथा सर्वदा प्रसङ्गात् । अप्रतिपत्तौ वा विवेकेन द्वित्वकल्पनायोगात् अतिप्रसङ्गाच्च । पश्यन् शुक्तिरूपं विशिष्टमेव पश्यति। निश्चयप्रत्ययसामान्यात् अनिश्चि कप्रमाणप्रवृत्तावपरस्याप्रवृत्तिः स्यादेवेति। यदीत्यादिना विवरणं। दृष्टं सर्वन्तत्त्वं स्वरूपं यस्येति विग्रहः। तथा निश्चयप्रतिरोधिना यथादृष्टनिश्चयविबन्धकेन भ्रान्तिनिमित्तेन सदृशापरोत्पत्तिलक्षणेन। गुणान्तरस्थिरत्वादि। न संयोज्येत। नारोप्येत । यथा शुक्तौ विशिष्टरूपेण गृहीतायामपि शुक्लसाधाद् रजताकारः संयोज्येत । तदा स्यादनवकाशा प्रमाणान्तरवृत्तिः (।)। स्यान्मतं (1) न शुक्तौ विशिष्टरूपग्रहे रजतसमारोपः किन्तु यद्रजतरूपसामान्यन्तदृष्टरेवमध्यवसाय इत्यत्राह। न हीति। न हि शुक्तौ द्वे रूपे सम्भवतः। एक रजतेन समानं रूपं अपरम्विशिष्टमवधारणं च। किं कारणं। तथा सामान्यविशेषरूपेण शवलाभासायाः प्रतिपत्तेः सर्वदाप्रसङ्गात्। अप्रतिपत्तौ वा विवेकेनेति । इदं सामान्यमयं विशेष इत्येवम्बिवेकेन विभागेनाप्रतिपत्तौ द्वित्वविकल्पायोगात्। शुक्तौ द्वे रूपे इति कल्पनाया अयोगात। प्रतिभासभेदमन्तरेण द्वित्वकल्पनायामतिप्रसङ्गात्। अन्यत्राप्येकत्वाभिमते द्वित्वकल्पना स्यात। नेदं रजतमिति बाधकस्यानुत्पादप्रसंगाच्च। तस्माच्छुक्तौ रूपद्वयायोगात। पश्यन् शुक्तिरूपं पुरुषो विशिष्टमेव स्वलक्षणमेव पश्यति न सामान्यं । अभ्यासादयो निश्चयप्रत्ययास्तेषाम्वैफल्यात त्वनिश्चिन्वन द्विविशिष्टं शुक्तिकारूपन्तत्सामान्यं रजतरूपसामान्यम्पश्यामीति मन्यते। तत इति रजतरूपसामान्यग्रहणाभिमाना दस्य द्रष्टुः शुक्तौ रजतसमारोपः। यद्वा. शुक्तिकारजतयोर्यत्सामान्यं तुल्यं रूपन्तत्पश्यामीति मन्यते (1) ततो रूपदर्शनादस्य द्रष्टू रजतसमारोपः। तथा हि यादृशमेव मया रजतस्य रूपं प्रतिपन्नन्तादृशमेवास्यापि रूपन्तस्मात्तदेवेदं रजतमिति प्रतीतिः। यथा शुक्तौ रजतसमारोपस्तथा दृष्टे शब्दादौ धर्मिणि सवृशापरापरोत्पत्त्या स'दृशस्य द्वितीयस्य क्षणस्योत्पत्त्या भ्रान्ति- 48a निमित्तेन पूर्वोत्तरक्षणयोरलक्षितनानात्वस्य पुंसस्तद्भावसमारोपात् सत्तासमारो 1Nes-pahi-gnas-su-gyur-pa. 2 Gtan-la-ma-phebs-pas.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy