________________
१२२
प्रमाणवात्तिकस्ववृत्तिटीका (१।४६) 435b नत्वाद् भेदव्यवहारस्य । अन्यथाऽभावप्रसङ्गादित्युक्तम्। तस्मात् प्रत्यक्ष मिणि तत्स्वभावसाकल्यपरिच्छेदात अनवकाशा प्रमाणान्तरस्य वत्तिः॥
नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारो रूपसाधयदर्शनात् ॥४६॥
स्वभावो न युक्तः। तन्मात्रनिबन्धनत्वाद् भेदव्यवहारस्य नानात्वं व्यवस्थायाः। ____ अन्यथेति यद्येतद् भेदकारणं नेष्यते तदाभेदव्यवहारस्याभावप्रसङ्गावित्युक्तं । एष हि भेदाभेदहेतुर्वेत्यत्र प्रस्तावे। यत एवन्तस्मात् प्रत्यक्षे धर्मिणि शब्दादौ। तत्स्वभावसाकल्यपरिच्छेदात् । धर्मिस्वभावस्य साकल्येनावगमात् तत्र धर्मिणि। अनवकाशा निर्विषयी प्रमाणान्तरस्यानुमानस्य वृत्तिः।।
तवापि तुल्यो दोष इति चेदाह (1) नो चेत्यादि। भ्रान्तिनिमित्तेन सदशापरोत्पत्त्यादिना कारणभूतेन विकल्पबुद्धया संयोज्येत समारोप्येत गुणान्तरं । स्थिरत्वादि। वा शब्द इवार्थे । शुक्ताविव रजताकारः संयोज्येत। कथं। रजतरूपेण शुक्तिकारूपस्य यत्साधर्म्य चैकचिक्यादि। तस्य दर्शनात् । अनवधारितविशेषं शुक्तिकारूपमेव सदशप्रत्ययनिबन्धनत्वाद् रूपसाधर्म्यमुक्तं न तु साधर्म्य नाम द्वयोः साधारणमस्ति।
एतदुक्तम्भवति। यदि भ्रान्तिनिमित्तेन गुणान्तरन्न संयोज्येत भवेत् ममापि दोषः किन्तु समारोप्येत। ततः समारोपव्यवच्छेदार्थम्प्रमाणान्तरं प्रवर्तते। सेना
यमर्थानुभूतनिश्चिते प्रमाणान्तरस्य गृहीतग्राहित्वेनाप्रवृत्तिः स्यात्। समारोपेण 47b त्वनुभूतानिश्चिते तत्समारोपव्यवच्छेदार्थं प्रमाणान्तरमनुमानं प्रवर्तत इत्येके।
तदयुक्तं। लिङ्गस्य व्यवच्छेदेन सह सम्बन्धासिद्धेः । नापि यावद्धेतुना पूर्व पक्षव्यवच्छेदो न क्रियते तावत् सन्दिग्धा साध्यप्रतीतिः स्याद्धेतोः साध्येन सम्बन्धात्। यत्र च न साध्यं न तत्र तद्विपक्षो विरोधात् । तस्माल्लिङ्गं स्वव्यापकं विधिरूपेण निश्चिन्वदर्थादन्यसमारोपं निषेधति ॥ .
नन्वेवमपि कथन्तन्निषेधः क्षणिकत्वानुमाने पि प्रवृत्तेऽक्षणिकारोपात् ।
सत्यं (1) केवलमनुमानेनाक्षणिकार्थनिषेधे कृते नायमक्षणिकाकारः प्रत्ययस्तज्जन्योपि तु सदृशापरोत्पत्तिजन्यत्वेनारोपित इति प्रतिपाद्यते। तस्मात् तस्यैवानुभूतानिश्चितस्य क्षणिकत्वादेनिश्चयानुमानं प्रवर्तते। यत्रापि विपरीत समारोपो नास्त्यभ्यासादेरभावाच्च नानुभवो निश्चयजननसमर्थो न तत्रापि निश्चयार्था प्रमाणान्तरवृत्तिरेकांशनिश्चयेन सर्वात्मना निश्चितत्वात् । न च तद्वस्तु प्रतिभासते यस्य न कश्चिदपि स्वभावो निश्चितः। तस्मात तत्राप्ये