________________
४. सामान्यचिन्ता
गम्यते । प्रमाणान्तरस्य प्रवृत्तेः । तथा हि-
१२१
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
कोऽन्यो न दृष्टो भागः स्याद् (यः) प्रमाणैः परीक्ष्यते ॥४५॥
एको ह्यर्थात्मा स तावत् प्रत्यक्षः । असिद्धे धर्मिणि साधनासम्भवात् । यथाऽनित्ये साध्ये शब्दः । तस्य प्रत्यक्षेणैव सिद्धेः सर्वाकारसिद्धिः । तदन्यस्या's - सिद्धस्याभावात् । भावे वाऽतत्स्वभावत्वम् ।
.
न हि यो येन एकयोगक्षेमी भवति स तत्स्वभावो न युक्तः । तन्मात्रनिबन्ध
शब्दलिंगाभ्यां विधिना विधिरूपेण प्रतिपाद्यतेऽध्यवसीयते न पुनर्वस्तुनो रूपं पारमार्थिकधर्मधर्मिभावलक्षणं प्रतिपाद्यत इति कुतो गम्यते ।
प्रमाणान्तरस्येत्यादि प्रतिवचनं । तेनायमर्थो यदि तावत् पारमार्थिको धर्मधर्मिभावः सर्वात्मनाऽभिन्नस्तदैकेन प्रमाणेन शब्देन वाधिगतेर्थे सर्वात्मना परिच्छेदादन्यस्य प्रमाणान्तरस्य शब्दान्तरस्य वा प्रवृत्तिः स्याद् गृहीतग्राहित्वेनाप्रामाण्यात् । भवति च शब्दान्तरादेः प्रवृत्तिरतः कल्पित एव धर्मधर्मिभावः ।
यद्यपि पूर्वसामान्यनिराकरणा देव कल्पितो धर्मधर्मिभावः प्रसाधितस्तथापि 472 प्रकारान्तरेणानेनापि प्रसाध्यत इत्यदोषः । एतमेव प्रतिपादयन्नाह । तथा हीत्यादि । एकस्येति । धर्मधर्मविभाग रहिततत्वान्निरंशस्यार्थस्वभावस्यार्थात्मनः स्वयं स्वरूपेण प्रत्यक्षस्य सतः कोन्यो न दृष्टो भागः स्यात् प्रत्यक्षदृष्टात् स्वभावात् कोन्यः स्वभावो न दृष्टः स्याद् यः प्रमाणैरनुमानसं ज्ञकैः परीक्ष्यते (1) व्यक्तिभेदाद् बहुवचनं । सर्व एव दृष्टो निरंशत्वाद् भावस्य तस्मान्न प्रमाणान्तरपरीक्ष्यः स्यादिति । एक इत्यादि विवरणं । एको ह्यर्थात्मा निरंशः स तावत् प्रत्यक्षोभ्युपगन्तव्यः यत्रानुमानं प्रवर्त्तते । किं कारणं (1) प्रमाणेन प्रागसिद्धे धर्मिणि साधनासम्भवात् । आश्रयासिद्धत्वेन लिंगस्यासम्भवात् तस्मात् प्रसिद्धेन धर्मिणा भाव्यं ॥
एतदुक्तम्भवति । लिङ्गस्यैव प्रवृत्तिर्न स्यात् किं पुनलंगिनिश्चिता प्रमाणा न्तरस्य प्रवृत्तिर्भविष्यति । यथाऽनित्ये साध्ये शब्द: प्रत्यक्षसिद्धस्तस्य प्रत्यक्षेणैव प्रमाणेन स्वरूपसिद्धेः कारणात् सर्वाकारसिद्धिः । कस्मात् तदन्यस्यासिद्धस्य शब्दस्वभावादन्यस्य स्वभावस्यासिद्धस्याभावात् । भावे वाऽसिद्धस्य स्वभावस्य . अतत्स्वभावत्वमशब्दस्वभावत्वं । सिद्धासिद्धयोरेकस्वभावत्वविरोधात् ।
तदेवाह । न हीत्यादि । अलब्धधर्मानुवृत्तिर्योगः । लब्धधर्मानुवृत्तिः क्षेमः । एको योगः क्षेमश्च यस्य स तथा । तुल्यधर्मेति यावत् । यः स्वभावो येन सदैककयोगक्षेमी न भवति स भिन्नयोगक्षेमः । तत्स्वभावो यतो भिन्नयोगक्षेमस्तस्य
१६