________________
प्रमाणवार्तिकस्ववृत्तिटीका ( ११४४ )
कारणपरिहारेण व्यवहारार्थाः । यथा शब्दः प्रयत्नानन्तरीयकः श्रावणोऽतत्काकारणपरिहार्थः ।
१२०
तस्मात् स्वभावाऽभेदेऽपि यो विशेषो भेदो धर्मिणा नाम्ना प्रतीयते न स शक्यस्ततोऽन्येनेति न सर्वे शब्दा एकार्थाः । तस्मान्न प्रतिज्ञार्थैकदेशो हेतुरेवम् ।
कथं स एव व्यवच्छेदः शब्दालिङ्गाभ्यां विधिना प्रतिपाद्यते न वस्तुनो रूपमिति
शिता अतत्कार्यकारणपरिहारेण व्यवहारार्थाः । तद्विवक्षितं कार्यं कारणं च यस्य स तत्कार्यकारणः । यथा श्रोत्रविज्ञानकार्यः शब्दः प्रयत्नकारणश्च स तथा यो न भवति सोऽतत्कार्यकारणस्तस्य परिहारेण व्यवहारार्थाः प्रवृत्तिनिवृत्तिलक्षणो व्यवहारोर्थः फलं यासामिति विग्रहः ।
विषयमाह । प्रयत्नः कारणं यस्य स प्रयत्नानन्तरीयक उच्यते । तेना तत्कारणस्याऽप्रयत्नकारणस्य विद्युदादेः परिहारार्थः प्रयत्नानन्तरीयकध्वनिः । श्रोत्रज्ञानं कार्यं यस्य तच्छ्रावणन्तेन श्रावणध्वनिरतत्कार्यपरिहारार्थः । सर्वव्यवहाराणां चार्थक्रियानिमित्तत्वात् । हेतुफलभावलक्षणत्वाच्चार्थक्रियाया घटादिशब्देष्वपि तदतत्कार्यकारणपरिहार्थत्वं योज्यं ॥
तस्मादित्यादिना तृतीयश्लोकं व्याचष्टे । यस्माद् भिन्ना व्यावृत्तिभेदाः श्रुतयश्च यथास्वम्भेदे नियतास्तस्मा देकस्य धर्मिणः स्वभावाऽभेदेपि । धर्मिणेत्यस्य विवरणं नाम्नेति शब्देनेत्यर्थः । यो विशेष इत्यस्यार्थो भेदः कृतकादिलक्षणो धर्मः कल्पितः प्रतीयते । न स शक्यस्ततोन्येन । तस्माद् विवक्षितात् कृतकादिशब्दादन्येनानित्यादिशब्देन प्रत्याययितुन्तस्मान्न प्रतिज्ञार्थैकदेशो हेतुरनित्यकृतकशब्दयोभिन्नार्थत्वात् ।।
कथमित्यादि परः । शब्दरच लिङ्गश्च ताभ्यां । यद्यपीह लिङ्गं प्रकृतन्तथापि शब्दस्योपादानं लिङ्गवत् निर्विषयत्वख्यापनार्थन्तेन वे द स्य प्रामाण्यं निराकृतम्भवति ।
ननु विधिरूपेण शब्दलिंगे अर्थः प्रतिपाद्यत इत्युक्तन्तत्कथमिदमाशंकितं व्यवच्छेदः प्रतिपाद्यत इति कथं गम्यत इति ।
नैतदस्ति । व्यवच्छिद्यतेनेनेति व्यवच्छेदो बाह्यरूपतयारोपित एवाकार उच्यते । तेन स एवं शब्दलिङ्गाभ्यां विधिना प्रतिपाद्यते न वस्तुरूपमिति कुतो गम्यते । यद्वा व्यवच्छिद्यतेस्मिन्निति व्यवच्छेदः । स्वलक्षणमुच्यते । स एव
1 Thahi-dan-kyis.