________________
४. सामान्यचिन्ता
'११६
याभिमतात् अन्यस्माच्च व्यतिरिक्ताः स्वभावेनैकरूपत्वात् ॥
यतो यतो भिन्नाः तद्भेदप्रत्यायनाय कृतसन्निवेशः' शब्दै': ततस्ततो भेदमुपादाय अनेकधर्माणः अभेदेऽप्यर्थाः प्रतीयन्ते। तेऽपि शब्दाः सर्वभेदानाक्षे- 435a पेऽपि एकभेदचोदनात् स्वलक्षणनिष्ठा एव भवन्ति। तदेकस्मादपि तस्य भेदो ऽस्तीति॥
तस्मात् एकस्य भावस्य यावन्ति पररूपाणि तावत्यः(व्यावृत्तयः)तदपेक्षया। तदसम्भविकार्यकारणस्तस्य तद्भेदात्। यावत्यश्च व्यावृत्तयस्तावत्यःश्रुतयोऽतत्कार्य
कृतसंकेतैः शब्द: करणभूतैरनेकधर्माणः कृतकत्वादिधर्मवन्तः प्रतीयन्ते स्वभावा । भेदेपि । न टेकस्य स्वलक्षणस्य स्वभावनानात्वमस्ति । कथन्तीनेकधर्मत्वमित्याह । ततस्ततो भेदमुपादायेति (1) यतो यतो व्यावृत्तास्ततस्ततो भेदमुपादायाश्रित्य तेपि शब्दा ये तस्य तस्य भेदस्य भिन्नस्वभावस्य ख्यापनाय कृतसंकेतास्तेष्वस्मिन भिन्ने स्वभावे वाचकत्वेन नियताः (1) ततो नैकः शब्दः सर्वान् भिन्नस्व भावानाक्षिपत्यतस्तेपि शब्दाः प्रत्येकन्तैः सर्वभेदानाक्षेपेपि । एकभेदचोदनादेकैकस्य भिन्नस्य स्वभावस्य चोदनात्तत्स्वलक्षणनिष्ठा एव भवन्ति । यस्य स्वलक्षणस्य स स्वभावोन्यस्माद् भिन्नो यः शब्देनाध्यवसीयते। तच्च तत्स्वलक्षणं च। तनिष्ठा एव तद्विषया एव भवन्ति। ..
ननु बाह्यतयाध्यवसितोर्थः शब्दप्रतिभासी साधारणोन्य एवान्यच्च साधारणं स्वलक्षणन्तत्कथन्तन्निष्ठा इत्यत्राह। तदेकस्मादपि यतो यतो व्यावृत्तोर्थः शब्दैविषयीक्रियते तस्मात्तस्मादतत्कारणादतत्कार्याच्चैकस्मादपि तस्य स्वलक्षणस्यानकव्यावृत्तस्य भेदोस्तीति कृत्वा तद्विषया उच्यन्ते न तु तद्विषया एव। यद्वा तस्य व्यावृत्त्याश्रयस्य धर्मस्य यत् स्वलक्षणन्तन्निष्ठा एव तत्प्राप्तिपर्यवसाना एव भवन्ति । किं कारणं (1) तदेकस्मादपि तस्य भेदोस्तीति व्याख्यातमेव ।
उषसंहरन्नाह। तस्मादिति। यस्मात् सजातीयविजातीयाद् व्यावृत्तिस्तस्मादेकस्य भावस्य यावन्ति पररूपाणि तावत्यस्तदपेक्षया। पररूपापेक्षया। पररूपेभ्यो व्यावृत्तयः कल्पिता धर्मभेदाः । व्यावर्त्तते विजातीयमेभिरिति कृत्वा (1) 46b. किं कारण (1) तस्मिन् व्याव]ऽवधिभूते धर्मिण्यसम्भवि कार्य कारणं च यस्य विवक्षितस्य धर्मिणः स तवसम्भविकार्यकारणस्तस्य तभेदात् । तस्मादतत्कार्यादतत्कारणाच्च भेदाद् व्यावृत्तत्वात् । यावत्यश्च व्यावृत्तयस्तावत्यः श्रुतयो निवे
i Tha-sñad-du-byas-pa
2 Thahi-dan-kyis.