________________
११८ प्रमाणवात्तिकस्ववृत्तिटीका (१।४४) तद्दर्शिन्याः सा भ्रान्तिरिति चेत् । तदशिनीति कुतः। निर्बीजभ्रान्तेरयोगादिति चेत्। त एव तदेककार्या बीजं भ्रान्तेः। संख्यासंयोगकार्यद्रव्यादिवस्तुभूतादिष्वप्यभावात्। तत् तथा सामान्ये निवेशाभावात् न सामान्यमन्यत् । सति वातस्यापि स्वात्मनि अवस्थानाद् अमिश्रमणमन्येन। तस्माद् इमे भावाः सजाती
ग्रहो भ्रान्तिः। सामान्यं केवलं पश्यत्येव बुद्धिः। तस्यास्तु तद्देशिन्याः समवायस्य सूक्ष्मत्वात् सा भ्रान्तिर्यदेतद् व्यक्तीनां सामान्याभेदेन ग्रहणमिति चेत् । तद्दशिनीति कुतः (1) पारमार्थिक सामान्यदर्शिनी सा बुद्धिरिति कुतो निश्चयः सर्वदास्या व्यक्त्यभेदविषयत्वात्। नास्या बीजमस्तीति निर्बीजा तथा चासौ भ्रान्तिश्च तस्या अयोगात्। न हि भ्रान्तिरुत्पद्यमाना निनिमित्ता घटते। जलादिभ्रान्तिवत्। भ्रान्तिश्चेयमसंसृष्टानपि भावान् संसृजन्ती बुद्धिरतोस्या निमित्तेन भवितव्यं (1) यत्तन्निमित्तन्तत् सामान्यमित्यत्राह । त एव भेदास्तत्सामान्यज्ञानाद्येकङ्कार्य येषान्ते तदेककार्या बीजं भ्रान्तेः। एतच्च प्रतिपादयिष्यते।
न च सामान्यं दृष्टातदारोपेण व्यक्तिष्वेकाकारा भ्रान्तियुज्यते। तथा हि (1) सादृश्यं भ्रान्तिकारणमत्यन्तविलक्षणं च सामान्य व्यक्तिभ्यस्तस्यावर्णसंस्थानाकारत्वाद् व्यक्तीनां च वर्णसंस्थानाकारत्वात् ।
अथ स्यात् (1) न सामान्यस्य सादृश्यनिमित्तो भेदेष्वारोपोपि त्वेकान्तेन 46a भिन्नेषु स एवायमित्ये कत्वावसायविभ्रमो नैकरूपमन्तरेणेति ब्रूमः। यद्येवमेकेन
सम्बन्धिन इत्येव कृत्वा विनापि भ्रान्तिनिमित्तेन यद्येकाकारभ्रान्तिविषया भवन्ति। तदा संख्या च संयोगश्च कार्यद्रव्यं चादिशब्दाद् विभागादि चैकम्वस्तु विद्यते येषान्ते तद्वन्तस्तेषु भूतेषु चैकगुणेन युक्तेषु स्यादेकाकारा भ्रान्तिः (1) न च भवति (1) अतो व्यक्तीनामपि नैकत्वनिमित्ता भ्रान्तिरिति। तदिति तस्माद् यथा व्यक्तिभ्यो भेदेनेष्टं सामान्यं तथा सामान्यबुद्धौ निवेशाभावात् प्रतिभासाभावान्न सामान्यमन्यत् । सति वा सामान्ये तस्यापि सामान्यस्य स्वात्मनि स्वस्मिन् स्वभावेऽवस्थानादमिश्रणमन्येन व्यक्तिरूपेण। व्यक्तिष्वनवस्थानान्न धर्मरूपत्वन्तस्येत्यर्थः। तस्मादिति स्वस्वभावव्यवस्थानाद् इमे भावा घटादयः सजातीयाभिमतात् तुल्याकारत्वेनाभिमताद् अन्यस्माच्चेति विजातीयादिव्यतिरिक्ताः पृथग्भूताः स्वभावेन प्रकृत्यैकरूपत्वात्। स्वस्वभावव्यवस्थितेरिति यावत् ॥
द्वितीयकारिकार्थमाह। यतो यतो भिन्नास्ते भावास्तस्माद् भेदस्तभेदः । तस्माद् भिन्नाः स्वभावास्तस्य प्रत्यायनाय प्रतिभिन्नस्वभावं कृतसन्निवेशैः शब्दः