________________
४. सामान्यचिन्ता
११७
स्युः।३ भूतानां कण्ठगुणवत्। नाभिन्नप्रत्ययविषयाः। भूतवत्। तदात्मानमेव संसृजन्ती बुद्धिः सामान्यविषया प्रतिभासते। नैकसम्बन्धिनाविति भूतवत् ।
नार्थं निबध्यते। तेनैकेन कण्ठे गुणेन यथा भूतानि तद्वन्ति न त्वेकीभवन्ति तद्वद्वयक्तयोपि।
ननु गुणस्य मूर्त्तत्वाद् तद्वत्ता प्रतीतिर्युक्ता। न व्यक्तिषु सामान्यस्यामूर्त- 45b त्वादिति चेत् (1) न। तत्समवेतत्वस्येष्टत्वादर्थान्तरभावस्य च। यतश्चैकसम्बन्धेपि न समाना व्यक्तयस्तत एव नाभिन्नप्रत्ययविषयाः एकाकारज्ञानस्याभ्रान्तस्य न विषयाः। भूतवत्। यथा भूतान्यगुणस्वभावानि नैकगुणाकारप्रत्ययविषयः। तद्वत्। एवन्तावदनेकसम्बन्धेप्यर्थान्तरं न तेषां सामान्यंद्वित्वादिष प्रसङ्गदिति स्थितं (1) प्रतीयन्ते च समाना इति (1) तस्मात् तदात्मानमेव हि तयोर्भेदयोरात्मानमेव। एकरूपमिदं वचमित्येकांशेन स्वगतेन संसृजन्ती बुद्धिः सामान्यविषया प्रतिभासते। नैकसम्बन्धिनावित्वेकेन सामान्येन सम्बन्धिनावेताविति नैवम्बद्धिः प्रतिभासते येन सा
द्धिः प्रतिभासते येन सामान्यमर्थान्तरम्प्रमाणसिद्धं स्यात् । भूतवदिति वैधर्म्यदृष्टान्तः । यथा बुद्धिर्भूतान्येकेम गुणेन सम्बद्धानि गृह्णाति नैवमित्यर्थः।
यद्वा यथा भूतान्येकसम्बन्धीनि तथा भिन्नावेकसम्बन्धिनाविति सामान्यविषया बुद्धिः प्रतिभासत इति नैवं।
अथ स्यात् (1) सामान्यं हि व्यक्तीनाम्विशेषणं । विशेषणं च विशेषे स्वानुरक्तां बुद्धि जनयत्यतो नास्य व्यक्तिभ्योर्थान्तरभावेन प्रतिभासः ।
ननु विशेषणत्वेपि तस्य न विशेष्येण स हैक्यं दण्डस्येव दण्डिना तत्कथमभेदप्रतिभासः। अभेदांशेनाप्येकत्वान्न विशेषणविशेष्यभावः। तस्मात्- सामान्यस्य व्यक्त्यभेदप्रतीतिान्तिरेव। अथ सर्वदैवं प्रतीतेरभ्रान्तिः । तदाह।
“यो ह्यन्यरूपसंवेद्यः सम्वेद्येतान्यथा पुनः।
स मिथ्या न तु तेनैव यो नित्यमवगम्यत" इति (1) [ ला. वा-7 तदयुक्तं। तस्य व्यक्त्यभिन्नत्वमेव स्यात्। गोर्गोत्वमिति प्रतीतिभेदाभ्युपगमाच्च। न च लाक्षास्फटिकयोरिव जातितद्वतोः संसर्गावगतिरभ्रान्तिः। अलाक्षारूपस्य स्फटिकस्य लाक्षारूपेण गतेर्धान्तत्वात्। एवं जातितद्वतोरेकत्व
.. 'De-dan-ldan-pa-dag-tu-ni-hgyur-te,