________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।४४) अर्थान्तरमपि तद् अनेकसमवेतत्वात् न तेषां सामान्यम्, अतद्रूपत्वात् । द्वित्वादिकार्यद्रव्येष्वपि प्रसङ्गात्। सम्बन्धिनाऽन्येनाऽन्येऽसमानाः तद्वन्त एव
रूपयोः परस्परासंश्लेषादेकान्तेन भेद: स्यात् । तदाह (1) तच्चैकरूपं स्वात्मनि स्वस्वभावे व्यवस्थितममिश्रमेव व्यक्तिरूपेण । अमिश्रे च मिश्ररूपतयाप्रतीतेमिथ्यात्वमेव। . अथ कथंचित् सामान्यस्य व्यक्त्यभिन्नत्वान्नैतन्मिथ्यात्वं । तदाह।
"नैतदश्वादिबुद्धीनामध्यारोपाद्यसम्भवात् ।
स्थितं नैव हि जात्यादेभिन्नत्वं व्यक्तितो हि न" इति । तदयुक्तम् (1) एकत्वेन येनैव रूपेण भिन्नन्तेनैवास्याभेदो विरोधान्न चैकस्मिन् प्रमाणे भेदाभेदं प्रतिभासते। एकेन च भेदग्रहणे सति यद्यन्येनाभेदो गृह्यते कथन्तद्ग्राहकं प्रमाणं भ्रान्तं न स्याद् (1) अन्यथा ग्रहणात्तस्य चैकरूपत्वात्।
यद्वाऽमिश्रणादेवैकस्य रूपस्य सामान्यरूपता न स्यादर्थान्तरत्वाद् घटवत् ।
उ द्यो त क (रस्त्वाह। “गवादिष्वनुवृत्तिप्रत्ययः पिण्डादिव्यतिरिक्तनिमित्तभावी। विशेषत्त्वान्नीलादिप्रत्ययवत्। तच्च निमित्तं समानव्यक्तिकरणात सामान्यमित्युच्यते'' (1) ___ अत्रापि न तावत्समानाना'मर्थान्तरेण समानरूपता क्रियते तथैव निष्पन्नत्वा(द)प्यसमानानामिति दर्शयन्नाह। अर्थान्तरमिति सत्ता गोत्वादिकं न तेषां व्यक्तिभेदानां सामान्यमतंद्रूपत्वात्। तेषां भेदानामसमानरूपत्वात् । समानानां च भावः सामान्यमिष्यते। ___ अथवाऽतद्रूपत्वाद् व्यक्तिभ्योर्थान्तरत्वादेकत्ववत् । अथार्थान्तरमपि बहुषु । समवेतमिति यदि तत्तेषां सामान्य। तदा द्वित्वादिकार्यद्रव्येष्वपि प्रसंगो द्वित्वमपि ह्यनेकद्रव्यसमवेतम् (1)आदिग्रहणाद् बहुत्वादिः। तथा संयोगोनेकद्रव्यसमवेतः। कार्यद्रव्यं चावयविसंज्ञितमारम्भकद्रव्येषु समवेतमतो द्वित्वादिषु सामान्यरूपताप्रसंगः। यस्मिन् नार्थान्तरे सति समाना भेदा भवन्ति तदेव सामान्यं न सर्वमित्यत्राह। न हि। यस्मात् सम्बन्धिनान्येनार्थान्तरेणकत्वलक्षणेनान्येऽ समाना भिन्ना न समाना नैकीक्रियन्ते भिन्नाभिन्नसमानभावकरणे तदन पयोगात। भिन्नदेशादीनां प्रतिभासनाच्च कथं समाना एव भवन्ति। केवलं तद्वन्त एक धर्मवन्तः स्युर्भेदाः। भूतानि ग्रहनक्षत्राणि तेषां कण्ठे दीर्घा गुणो
1Cf. Nyayavārtika 2 : 2 : 65.