________________
४. सामान्यचिन्ता
सर्व एव हि भावाः स्वरूप स्थितयो नात्मानं परेण मिश्रयन्ति, तस्यापरत्वप्रस- 434b ङ्गात्। तेषामभिन्नं स्वात्मभूतं यद् रूपं न तत् तेषाम् । तदानीं तेषामभावात् । तदेव हि स्यात्, अभिन्नस्य भावात्। तस्मादप्रतिपन्नस्य भिन्नस्याभावात्। तस्यैव च पुनर्भेदविरोधात्। तच्च स्वात्मनि व्यवस्थितममिश्रमेव ।
विषयत्वं। शब्दानां च न पर्यायत्वं ।
तेन यदुच्यते (1) ययोस्तादात्म्यन्न तयोर्गम्यगमकभावो ययोश्च विकल्पित-. रूपयोर्गम्यगमकभावो न तयोः सम्बन्ध इति (1) ___ तदपास्तं । अकृतकव्यावृत्तस्यैव स्वलक्षणस्य ज्ञापकहेत्वधिकारात् । कृतक इति ज्ञातस्य गमकत्वात् तस्य च नित्यव्यावृत्तवस्तुरूपत्वात् तादात्म्यं ।
सर्व एव हीत्यादिनाऽद्वै त वा दं निराकुर्वन् कारिकार्थमाह। स्वरूपे स्वात्मनि स्थितिर्येषान्ते तथा। सर्व एव हि भावाः स्वरूपस्थितयो नात्मानं परेण मिश्रयन्ति । एकीकुर्वन्ति । किङ्कारणं (।) तस्य मिश्रीक्रियमाणस्य परस्यापरत्वप्रसङ्गात् । आत्मतापत्तेः। स्यान्मतं (1)
"सर्ववस्तुषु बुद्धिश्च व्यावृत्तानुगमा त्मिका।
जायते द्वयात्मकत्वेन विना सा च न युज्यते" (॥) अतः सामान्यात्मका विशेषा विशेषात्मकञ्च सामान्यमित्युभयरूपम्वस्त्वित्यत्राप्येकस्य वा रूपस्य भिन्नेभ्योऽभेदो भिन्नस्य चैकस्मादभेदः (1) तत्र प्रथमं पक्षं निराकर्तुमाह। तेषामिति भावानामभिन्नमित्येकात्मभूतमित्यव्यतिरिक्तं यद्रूपं स्वभावो न तत्तेषाम्भावानामिति शक्यम्वक्तुं। कस्मात्तदानीन्तस्येत्यपेक्ष्यते । 45a तस्याभिन्नस्य रूपस्य तेषामभावादभेदादेव।
अथ पुनरेकस्माद् भिन्नस्याभेदस्तत्राप्याह। तदेव हि स्यादभिन्नस्य भावात् । एकं चेद्रूपं प्रतिपन्नाभावस्तदेवाभिन्नं रूपन्तेषां स्यान्न भिन्नं। कुत एतत् । तस्यैवाभिन्नस्य रूपस्य भावात् ।
अथ स्यात् (1) तेषाम्भेदोपीष्यत एवेत्यत्राह। तस्मादभिन्नात्मनोर्थान्तरस्य भिन्नस्य नानारूपस्याभावात् ।
अथ स्याद् (1) विशेषस्य यो भेद'स्स एव सामान्यस्याभेदाद् । यदाह (1) सामान्यस्य तु यो भेदं ब्रूते तस्य विशेषतो दर्शयित्वाभ्युपेतव्य इत्यत्राप्याह । तस्यैव च पुनर्भेदविरोधात्। तस्यैवैकस्यानेकत्वायोगात् ।
अथ स्याद् (1) विशेषद्वारेण सामान्यस्य भेदो न स्वरूपस्तदानुगतव्यावृत्त