________________
११४
प्रमाणवार्तिकस्ववृत्तिटीका ( १/४४ )
तस्माद् विशेषो यो येन धर्मेण संप्रतीयते । न स शक्यस्ततोन्येन तेन भिन्ना व्यवस्थितिः ॥४४॥
नापि नियतरूपान्यथानुपपत्त्या तत्कल्पना । अनियतरूपाणामन्यनिवृत्तेरभावात् । 44b नियतरूपाणां च कथमन्यनिवृत्त्या नियतरूपत्वं स्वहेतुभ्य एव नियतरू' पाणामुत्पत्तेः । तस्मान्नियतरूपावधारणपुरस्सरैवान्यनिवृत्तिः प्रतीयते । तथा हि घट इत्युक्तेऽघटो न भवतीति सामर्थ्यात् प्रतीयतेऽतो विकल्पकल्पितैवेषा न परमार्थतोस्ति ।
तस्मात् स्थितमेतच्छद्बलिङ्गाभ्याम्विधिरूपेण वस्तु प्रतिपाद्यतेर्थादन्यनिषेधः । तथा च वक्ष्यति " तद्गतावेव शब्देभ्यो गम्यतेऽन्यनिवर्त्तनमित्यादि (१।१२८ ) । तेन यदुच्यते कुमारि लेन ॥
"न त्वन्यापो हकृच्छब्दो युष्मत्पक्षेनुर्वाण्णतः । निषेधमात्रन्नैवेह प्रतिभासेव गम्यते ॥ किन्तु गौर्गवयो हस्ती वृक्ष इत्यादि शब्दतः । विधिरूपावसायेन मतिः शाब्दी प्रवर्त्तते ॥ तस्माद्येष्वेव शब्देषु नञ्ञ योगस्तेषु केवलं । भवेदन्यनिवृत्त्यङ्गः स्वात्मेवान्यत्र गम्यत"" इति (1)
एतत्सद्धं साध्यते । विधिरूपस्यापि शब्दार्थस्येष्टत्वात् ( 1 ) कथन्तर्हि परमताद् बौद्ध मतस्य भेदः (1) कथं वा शब्दलिंगयो 'रपोहो विषय उच्यते ॥
नन्वस्त्येव महान् भेदः परैः पारमार्थिकार्थविषयत्वेनेष्टस्य विकल्पस्य बौद्वैः कल्पितविषयत्वेनेष्टत्वात् । कल्पितश्चाकारोऽपोहाश्रितत्वादपोह उच्यते । अपोह्यतेऽनेनेति वा । अन्यनिवृत्तिमात्रं त्वर्थादाक्षिप्तमपोहनमपोह इत्युच्यते ( 1 ) स्वलक्षणं त्वपोह्यतेस्मिन्नित्यपोह उच्यते ।
तस्मादन्यान्यव्यावर्त्त्यवस्तुव्यपेक्षया धर्माः कल्पितभेदा विकल्पविषयीक्रियन्ते (1) अतो भिन्नविषया विकल्पास्तत्समानविषयाश्च शब्दा अप्यपर्यायां इति दर्शयितुमाह । तस्मादित्यादि । यतश्चैवं धर्मभेदाः कल्प्यन्ते तस्माद्यः स्वलक्षणविशेषो व्यावर्त्तनीयनित्यव्यपेक्षया व्यवस्थापितोऽनित्यलक्षणः । येन धर्मेण येन शब्देन । यथाऽनित्यशब्देन । शब्दोपि धर्मवाचकत्वाद् धर्म उच्यते । न स शक्यस्ततोन्येन । अनित्यशब्दादन्येन कृतकादिशब्देन । व्यावर्त्तनीयान्तरवस्त्वधिकेन प्रत्येतुं । तेन भिन्ना व्यवस्थितिः । तेन कारणेन विकल्पानां नैक
1 Slokavartika.