________________
४. सामान्यचिन्ता
११३
सति सादृश्यग्रहणहेतुको जलारोपः सम्भवति (1) बाह्यारोपाच्च पूर्वं न स्वाका'रो 44a ग्राह्यारोपोस्ति । विकल्पस्यैवाभावात् । भावे बोधैकरूप एवासाविति न बाह्यसदृशः। ततश्चान्यनिवृत्तिकृतसादृश्याभावात् कथम्बाह्यरूपः प्रतीयते। अनुमानस्य तु नान्यनिवृत्तिग्रहणपूर्विका प्रवृत्तिर्लिङ्गस्य तया सह सम्बन्धात् सिद्धेः। यदा च तद्विशेषावगाहित्वम्विकल्पानां प्रतीयते तदा विधिरूपेणैव प्रवृत्तिर्वस्तुस्वरूपस्य विधीयमानत्वेनाध्यवसायादर्थादन्यनिवृत्तिः प्रतीयते। तेन विधिरेव शब्दार्थोस्माकमपि। बाह्यतयाऽरोपितस्य च विधिप्रतिषेधाभ्यां सम्बन्धः।
ननु नियतरूपग्राही विकल्प: प्रतिभासते। तेनेतररूपशून्यमेव विकल्पयन्नियतमर्थ विकल्पयति। तस्माद्यन्नियतरूपावधारणन्तदन्यनिवृत्तिविषयन्तत्कथमुच्यते विधिरेव शब्दार्थ इति। ___ तदयुक्तं । अन्यनिवृत्तिमहं विकल्पयामीत्यप्रतीतेः। न च स विकल्पविषयो यो न विकल्प्य प्रतिभासते। यदि चेतररूपनिवृत्तिमेव विकल्पयन्नियतमर्थम्विकल्पयति तदेतरेतराश्रयदोषः स्यात् । इतररूपस्यापि नियतरूपत्वेनान्यनिवृत्तिद्वारेण प्रतिपत्तिप्रसङ्गात्। अथ विधिरूपेणेतररूपं विकल्पयति न तर्हि तदन्यनिवृत्त्यवधारणपूर्वकन्नियतरूपावधारणं ।
- न च यथा सामान्यवन्तमर्थम्पश्यामीति नास्ति जातितद्वतोविशेष्यविशेषणभावे प्रतिभासः (1) अथ च विशिष्टप्रत्ययानुरोधात् सामान्यविशिष्टव्यक्तिदर्शनन्नैया यि का दयः कल्पितवन्तस्तथाऽन्ये (? न्यैर् ) निवृत्तिमहम्विकल्पयामीत्यप्रतीतावपि बाह्यसदृशारोपान्यथानुपपत्त्यान्यनिवृत्तिपरं विकल्पाकारे बाह्यरूपमारोप्यत इति युक्तं। सादृश्यमन्तरेण वासनाबलादेवाध्यवसितबाह्यरूपस्य विकल्पस्योत्पत्तेः । यदाह। तदनुभवाहितवासनाप्रभवप्रकृतेरध्यवसिततद्भावस्वरूपं। तथा विकल्पवासनायाश्च तादशी प्रकृतिर्यदेवमेषा प्रतिभातीति।
नापि बाह्यरूपारोपकस्य ज्ञानस्यान्यवित्तिकृतसारूप्यनिमित्तत्वेप्यन्यनिवृत्तिविषयत्वं । न हि मरीचिकायां जलज्ञानस्य सादृश्यविषयत्वमारोपितजलविषयत्वात्। न च नियतं रूपं भावानामन्यनिवृत्त्या क्रियते। तस्या अवस्तुत्वेनाकारकत्वात् । स्वहेतुभ्य एव च ततो (?तत उत्पत्ते।
नापि नियतरूपावधारणन्तदन्यनिवृत्तिविषयं नियतरूपविषयत्वादस्य (।) अत एव न तदन्यनिवृत्तिपुरस्सरमेव धार्यते प्रत्यक्षेणैव। . ___ न च तदन्यनिवृत्तिरर्थान्तरभूता युज्यत इति वक्ष्यति । नापि स (1) तत्त्वान्यत्वाभ्यामवाच्या युज्यते (1) एवं ह्यभाव एवास्याः स्याच्छशविषाणबत् । न च स्यात प्रत्यक्षगम्या नीरूपत्वात् । नाप्यनुमानगम्या। सम्बन्धाभावेन लिङ्गस्यासिद्धेः ।